खाद्य–आपूर्ति–मन्त्री लेशी–सिंहः गृह–मन्त्रिणा अमित–शाहेन सह शिष्टाचार–साक्षात्कारं कृतवान्
पूर्णियानगरम्, १७ फरवरीमासः (हि.स.)। बिहार–राज्ये पूर्णिया–जनपदस्य धमदाहा–विधानसभा–क्षेत्रस्य विधायिका तथा बिहार–सर्वकारस्य खाद्य–उपभोक्ता–संरक्षण–मन्त्री लेशी–सिंहः नवदिल्ली–नगरे देशस्य गृह–सहकारिता–मन्त्रिणा अमित–शाहेन सह तस्य निवासे शिष्टाचार–सा
गृहमंत्री से मुलाकात करते हुए


पूर्णियानगरम्, १७ फरवरीमासः (हि.स.)। बिहार–राज्ये पूर्णिया–जनपदस्य धमदाहा–विधानसभा–क्षेत्रस्य विधायिका तथा बिहार–सर्वकारस्य खाद्य–उपभोक्ता–संरक्षण–मन्त्री लेशी–सिंहः नवदिल्ली–नगरे देशस्य गृह–सहकारिता–मन्त्रिणा अमित–शाहेन सह तस्य निवासे शिष्टाचार–साक्षात्कारं कृतवती।

साक्षात्कारकाले मन्त्रिणा लेशी–सिंह: गृह–मन्त्रिणं पुष्पगुच्छेन अङ्गवस्त्रेण च सम्मानितवती। तस्मै एव धमदाहा–विधानसभा–क्षेत्रान्तर्गतस्य प्रसिद्धस्य माता–कामाख्या–मन्दिरस्य (मजरा–भवानीपुर) प्रतीक–चिह्नम् अपि समर्पितम्।

अस्मिन् अवसरे लेशी–सिंहेन माता–कामाख्या–मन्दिरं पर्यटन–क्षेत्रे सम्मेल्य तस्य समग्र–विकासाय “माता–कामाख्या–परिसर”–निर्माणस्य कृते निवेदन–पत्रम् अपि समर्पितम्। सा अवदत् यत् गृह–मन्त्रिणा अस्मिन् प्रस्तावे सकारात्मक–प्रयत्नं कर्तुं आश्वासनं दत्तम्।

सोमवासरे सम्पन्ने अस्मिन् साक्षात्कारे मन्त्री लेशी–सिंहः गृह–मन्त्रिणं प्रति कृतज्ञतां व्यक्तवती। सा अवदत् यत् मातुः आशीर्वादेन माता–कामाख्या–मन्दिरस्य राष्ट्रीय–स्तरे परिचितिः स्थापयितुं सा निरन्तरं प्रयतते। सा गृह–मन्त्रिणं सौविध्यनुसारं मन्दिरम् आगन्तुं विनयेन आमन्त्रणम् अपि कृतवती।

हिन्दुस्थान समाचार / अंशु गुप्ता