Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 17 फ़रवरीमासः (हि.स.)।
केन्द्रीय माध्यमिक शिक्षापरिषदः दशमस्य द्वादश वर्गस्य च परीक्षाः मङ्गलवासरे आरभ्यन्ते। परीक्षायाः समयः प्रातः १०.३० वादनात् अपराह्ण १.३० वादनपर्यन्तं भविष्यति। अस्य कृते विभिन्नेषु परीक्षा केन्द्रेषु परीक्षार्थिनां तथा अभिभावकानां अपि भीड दृश्यते।
परिषदा परीक्षायाः निष्पक्षसञ्चालनार्थं कठोरनिगराण्याः व्यवस्था कृता अस्ति। संवेदनशीलकेन्द्रेषु विशेषनिगराणी भविष्यति तथा सर्वे केन्द्राः सीसीटीवी कैमरेभ्यः सुसज्जिताः सन्ति।
दशमवर्गस्य कृते कुलम् २५०८३१९ परीक्षार्थिनः पंजीकृताः सन्ति येषु १४०८५४६ छात्राः तथा १०९९७७३ छात्र्यः सन्ति। द्वादशवर्गस्य कृते १८५९५५१ परीक्षार्थिनः पंजीकृताः सन्ति येषु १०२७५५२ छात्राः तथा ८३१९९९ छात्र्यः सन्ति।
दशमवर्गस्य परीक्षा गणित बेसिक तथा गणित स्टैण्डर्ड पत्राभ्यां आरभ्यते। द्वादशवर्गस्य परीक्षा बायोटेक्नोलॉजी, उद्यमिता तथा शॉर्टहैण्ड विषयैः आरभ्यते। एतासां परीक्षाणां कृते देशव्यापि १५६४९ केन्द्राणि निर्मितानि सन्ति। तेषु दशमवर्गस्य कृते ८०७५ तथा द्वादशवर्गस्य कृते ७५७४ केन्द्राणि निर्दिष्टानि सन्ति।
---------------
हिन्दुस्थान समाचार