मुख्यमन्त्री साय: परीक्षार्थिनां आत्मविश्वासं वृद्धिं कृतवान् – उक्तवान् - प्रिय-बालकाः! सर्वेभ्यः शुभकामना:
रायपुरनगरम्, १७ फरवरीमासः (हि.स.)। केन्द्रीय-माध्यमिक-शिक्षा-संघस्य (सीबीएसई) दशम- एवं द्वादश-बोर्डपरीक्षाः अद्य मङ्गलवासरे आरभ्यन्ते। छत्तीसगढ-माध्यमिक-शिक्षा-मण्डलस्य (सीजीबीएसई) परीक्षा २१ फरवरीमासे २०२६ तमे आरभ्य १३ मार्चमासे समाप्ता भविष्यति।
मुख्यमंत्री साय का  बोर्ड परीक्षार्थियों के नाम संदेश


रायपुरनगरम्, १७ फरवरीमासः (हि.स.)। केन्द्रीय-माध्यमिक-शिक्षा-संघस्य (सीबीएसई) दशम- एवं द्वादश-बोर्डपरीक्षाः अद्य मङ्गलवासरे आरभ्यन्ते। छत्तीसगढ-माध्यमिक-शिक्षा-मण्डलस्य (सीजीबीएसई) परीक्षा २१ फरवरीमासे २०२६ तमे आरभ्य १३ मार्चमासे समाप्ता भविष्यति।

छत्तीसगढ-प्रदेशस्य मुख्यमन्त्री विष्णुदेवसायः प्रदेशस्य छात्र-छात्राणां परीक्षायाः अवसरस्य परिप्रेक्ष्ये शुभकामनाः प्रेषयित्वा, तेषां आत्मविश्वासेन उत्साहेन च सह अग्रे प्रवर्तितुं संदेशं दत्तवान्।

मुख्यमन्त्री सायः मङ्गलवासरे स्वस्य सामाजिक-माध्यमे ‘एक्स’ मध्ये विद्यार्थिभ्य: आत्मीय-संदेशं प्रेषयित्वा उक्तवान् – “परीक्षासमयं जीवनस्य महत्वपूर्णः समय: अस्ति। उत्साहेन सह किंचित् चिन्ता स्वाभाविकी, किन्तु भयस्य आवश्यकता नास्ति।”

स: अपि उक्तवान् यत्- – “परीक्षासमयं आगतम्, अहं जानामि यत् एतेषु दिनेषु भवतां मनसि उत्साहः अपि अस्ति, किंचित् चिन्ता अपि। किन्तु सर्वप्रथमं ज्ञातव्यम् – यूयं एकाकिनः न स्थ, वयं सर्वे भवद्भि: सह स्मः।” सायः अवदत् यत् - परीक्षाया: काल: कदापि कदापि मनसि भयं नीत्वा आगच्छति, एतत् स्वाभाविकं अस्ति यत् “यदि भय: अनुभूयते, तर्हि अस्यार्थः अस्ति यत् भवान् अध्ययनं भविष्यं च गंभीरतया स्वीकरोति। भय: दुर्बलता न, अपि तु उत्तरदायित्वस्य संकेतः। किन्तु भयस्य प्रभाव: आत्मविश्वासे न पतेत्।”

स: अवदत् – “यूयं समग्रवर्षं परिश्रमं कृतवन्तः। प्रतिदिनं प्रयासः, अभ्यासः, पुनरावृत्तिः च – एते सर्वे शक्त्याः रूपेण भवद्भि: सह स्थिता:।”

मुख्यमन्त्री सायः शिक्षार्थिभ्यः निर्दिष्टवन्तः –“नियमितं अध्ययनं कुरुत, कठिनविषयाः पुनरावृत्त्यन्ताम्, समयस्य सम्यक् व्यवस्थां कुर्वन्तु, पर्याप्तां निद्रां गृह्णन्तु, पौष्टिकं आहारं कुर्वन्तु, च किञ्चित् समयं दूरभाषतः दूरं भूत्वा लक्ष्ये पूर्णतः ध्यानं केन्द्रितं कुरुत।”

स: विश्वासं व्यक्तवान् – “छत्तीसगढस्य समस्त विद्यार्थिन: अस्मिन् वर्षे अपि उत्कृष्टं प्रदर्शनं करिष्यन्ति, स्वकुलस्य प्रदेशस्य च नामगौरवं करिष्यन्ति।”

हिन्दुस्थान समाचार / अंशु गुप्ता