Enter your Email Address to subscribe to our newsletters

रायपुरनगरम्, १७ फरवरीमासः (हि.स.)। छत्तीसगढ-प्रदेशस्य मुख्यमन्त्री विष्णुदेवसायः अद्य मङ्गलवासरे बैकुंठपुर-जनपदस्य प्रवासे भविष्यति। स: प्रातः ११ वादने बैकुंठपुर-जनपद-पञ्चायत परिसरे सरगुजा-विकास-प्राधिकरणस्य सभां ग्रहीष्यति। अनन्तरं १२.३० वादने स: रामानुज-उच्चतमविद्यालय-प्रांगणं गमिष्यति, यत्र स: विभिन्न- विकास-कार्याणां लोकार्पणं करिष्यति।
अस्मिन् प्रवासे कोरिया-महोत्सवस्य अपि शुभारम्भः करिष्यति। मध्याह्ने ३.२० वादने रायपुरं आगमिष्यति। तत्र स: भारतीयजनतापक्ष-प्रदेशकार्यालये, कुशाभाऊ ठाकरे परिसरे आयोज्यमाने कार्यक्रमे सहभागं करिष्यति। अनन्तरं सायं ५.१५ वादने स: सिविल-लाइनस्थितं मुख्यमन्त्रीनिवासं प्रतिनिवर्तिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता