Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 17 फ़रवरीमासः (हि.स.)।दिल्लीस्य मुख्यमन्त्री रेखा गुप्ता केंद्रीय माध्यमिक शिक्षापरिषदः परीक्षासु सहभागिभ्यः विद्यार्थिभ्यः शुभकामनाः प्रदत्तवती। सा उक्तवती यत् एषः कालः वर्षपर्यन्तं कृतस्य परिश्रमस्य परिष्कारार्थं सुवर्णसंधिः अस्ति, अतः विद्यार्थिनः पूर्ण-आत्मविश्वासेन उत्साहेन च परीक्षायां सहभागीभवितव्यम्।
मुख्यमन्त्री एक्स्-सन्देशे उक्तवती यत् नरेन्द्र मोदी ‘परीक्षा पे चर्चा’ कार्यक्रमे विद्यार्थिभ्यः परीक्षां उत्सवरूपेण स्वीकरणाय प्रेरणां दत्तवान्। तस्य मूलमन्त्रः— “भवतः आत्मविश्वासः एव भवतः महान् संपदा अस्ति”— छात्रान् मानसिकरूपेण दृढान् करिष्यति।
सा विद्यार्थिनः आह्वानं कृतवती यत् ते प्रसन्नचित्ताः भूत्वा स्वकीयां मेधां प्रदर्शयन्तु, धैर्यं निरन्तरप्रयत्नं च स्वस्य वास्तविकशक्तिरूपेण स्वीकरोतु। मुख्यमन्त्री विश्वासं व्यक्तवती यत् दिल्ली-नगरस्य छात्राः स्वीयया लगनया परिश्रमेण च सफलतायाः नूतन-कीर्तिमानान् स्थापितुं समर्थाः भविष्यन्ति।
------------
हिन्दुस्थान समाचार