Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 17 फरवरीमासः (हि.स.)। केन्द्रीयशिक्षामन्त्री धर्मेंद्र प्रधान मंगलवासरे उक्तवान् यत् कृत्रिमबुद्धिमत्तया देशस्य भावीपीढी सशक्ता भविष्यति। एषा प्रौद्योगिकी भारतं वैश्विकस्तरे ‘ज्ञानमहाशक्ति’रूपेण प्रतिष्ठापयिष्यति।
धर्मेन्द्रप्रधानः भारत मंडपम इत्यत्र प्रवर्तमाने एआई इम्पैक्ट समिट 2026 अवसरॆ पत्रकारान् प्रति उक्तवान् यत् भारतस्य नवपीढ्यै एआई-सक्षम-शिक्षा प्रदातुं अधुना शासनस्य प्रमुखा जिम्मेदारी तथा प्राथमिकता जाता अस्ति। तेन उक्तं यत् अस्य सम्मेलनस्य कारणेन युवासु नूतनः उत्साहः उत्पन्नः।
सः अपि अवदत् यत् एआई-प्रगत्या २०४७ तमवर्षपर्यन्तं भारतं ‘विकसितराष्ट्र’रूपेण स्थापयितुं मार्गः प्रशस्तः भविष्यति। कार्यक्रमे मुख्यतया द्वयोः विषययोः केन्द्रितं ध्यानम् आसीत्— शिक्षायां एआई तथा एआई विषये शिक्षा।
प्रधानः उक्तवान् यद् “भारतस्य पारम्परिकज्ञानात् आरभ्य भविष्यस्य आधुनिकज्ञानपर्यन्तं, एआई-उपयोगेन न केवलं छात्राः, अपि तु शिक्षकाः तथा विद्यालय-महाविद्यालय-प्रबन्धनम् अपि सशक्तीकरणीयम्। शिक्षायां एआई तथा एआई मध्ये शिक्षा— एतौ उभौ अधुना परस्परं पूरकौ स्तः। अहं युवान् प्रति आह्वानं करोमि यत् ते एआई-प्रयोगं अध्ययनाय, अध्यापनाय, नूतन-नवोन्मेष-निर्माणाय च कुर्वन्तु, यथा भारतं अस्मिन् क्षेत्रे वैश्विकशक्तिः भवेत्।”
सम्मेलनस्य सह शिक्षामन्त्री केंद्रीय माध्यमिक शिक्षा बोर्ड दशम-द्वादश-वर्गीय-परीक्षां दातुं गच्छतां सर्वेषां छात्राणां प्रति अपि सन्देशं दत्तवान्। सः छात्रान् ‘एग्जाम् वॉरियर्स्’ इति निर्दिश्य अवदत् यत् ते अशैथिल्य-रहिताः भूत्वा परीक्षां उत्सववत् आचरन्तु तथा स्वस्य श्रेष्ठतमं प्रदर्शनं कुर्वन्तु।
उल्लेखनीयम् यत् नरेन्द्र मोदी सोमवासरे नवदिल्ल्यां स्थिते भारतमण्डपे इंडिया एआई इम्पैक्ट एक्सपो 2026 उद्घाटनम् अकृतवान्। तेन अवसरे प्रदर्शनीषु स्थापितानां विविधप्रदर्शनानां अवलोकनं कृत्वा एआई-उपकरणानां विषये सूचना अपि प्राप्ता।
-----------
हिन्दुस्थान समाचार