Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 17 फरवरीमासः (हि.स.)। ‘भारत विस्तार’ नामकं एतत् एकस्मिन् एव मंचे वास्तविककालिक मंडीभावाः कृषि वैज्ञानिकानां परामर्शाः मौसमपूर्वानुमानम् फसलबीमायोजनाः कृषि ऋणसुविधाः शासकीय योजनानां पात्रता आवेदनप्रक्रिया च उपलब्धं करिष्यति। अधुना एतत् हिन्दी आङ्ग्लभाषयोः आरब्धम् अस्ति तथा शीघ्रमेव एकादश अन्यासु भारतीयभाषासु अपि उपलब्धं भविष्यति। भविष्ये एतत् एग्रीस्टैक इत्यनेन अपि संयोजितं भविष्यति येन कृषकाः स्वस्य फार्मर आईडी माध्यमेन क्षेत्रसम्बद्ध समस्याः समाधानं प्राप्तुं शक्नुवन्ति।
चौहान उक्तवान् यत् नरेन्द्र मोदी नेतृत्वे कृषकहिताय निरन्तरं कार्याणि क्रियमाणानि सन्ति। न्यूनतम समर्थन मूल्ये अभिलेखसमान क्रयणम् प्रधानमंत्री फसल बीमा योजना प्राकृतिक कृषि समन्वित कृषि पद्धतिः कृषि विविधीकरणम् इत्यादिभिः उपायैः अन्नदाता लाभान्वितः अभवत्। तेन आश्वासनं दत्तम् यत् कृषकानां पशुपालकानां च हितेषु कस्यापि प्रकारस्य आघातः न भविष्यति तथा दुग्धोत्पादानां आयातः न क्रियते।
मुख्यमंत्री भजनलाल शर्मा उक्तवान् यत् एआई आधारितं ‘भारत विस्तार’ कृषि आधुनिकीकरणस्य दिशि ऐतिहासिकं पदम् अस्ति। सः अवदत् यत् राजस्थान राज्ये दश कृषि जलवायुविभागाः सन्ति तथा निरन्तर नवोन्मेषैः सूक्ष्मसिंचनक्षेत्रे राज्यं देशे प्रथमस्थानं प्राप्तवान्। सः उक्तवान् यत् एषः मंचः कृषकानां प्रति सेवाप्राप्तिं सरलाम् एकीकृताम् विश्वसनीयाम् च करिष्यति।
मुख्यमंत्री वैज्ञानिक कृषौ बलं दत्त्वा उक्तवान् यत् मृदा स्वास्थ्यपत्रस्य आधारेण एव उर्वरकाणां कीटनाशकानां च उपयोगः कर्तव्यः। तेन उक्तम् यत् राज्ये ‘मुख्यमंत्री मंगला पशु बीमा योजना’ अन्तर्गतं चतुर्दशलक्षाधिक पशूनां बीमाकरणं कृतम् ‘राजस्थान सहकारी गोपाल क्रेडिट कार्ड योजना’ अन्तर्गतं षट्शत् षट्सप्तति कोटि रुप्यकाणां व्याजमुक्त ऋणं प्रदत्तम् तथा ‘मुख्यमंत्री दुग्ध उत्पादक संबल योजना’ अन्तर्गतं प्रति लीटरं पञ्च रुप्यकाणि प्रोत्साहनरूपेण दीयन्ते।
कार्यक्रमे ‘एआई हैकथॉन’ ‘एग्री कोष’ तथा एआई फॉर एग्रीकल्चर मार्गरेखा अपि उद्घाटिता। ‘भारत विस्तार’ इत्यस्य सजीव प्रदर्शनसमये कृषकाः १५५२६१ इति हेल्पलाइन संख्यायां दूरभाषं कृत्वा स्वसमस्याः निवेदितवन्तः तथा एआई माध्यमेन तत्क्षणात् समाधानं प्राप्तवन्तः।
अस्मिन् कार्यक्रमे केन्द्रीय कृषि राज्य मंत्री भागीरथ चौधरी सांसद मंजू शर्मा मुख्य सचिव वी श्रीनिवास केन्द्रीय कृषि सचिव देवेश चतुर्वेदी सहिताः बहवः वरिष्ठ अधिकारीणः बहवः कृषकाः च उपस्थिताः आसन्। दृश्यसंवाद माध्यमेन विभिन्न राज्येषु कृषि मंत्रीणः कृषि विश्वविद्यालयानां मण्डीनां प्रतिनिधयः अपि संयोजिताः। ‘भारत विस्तार’ उद्घाटनस्य सह कृषि क्षेत्रे डिजिटल नवोन्मेषस्य नूतनः अध्यायः आरब्धः येन देशस्य कोटिशः कृषकाः प्रत्यक्षलाभं प्राप्स्यन्ति इति अपेक्षा अस्ति।--------------
हिन्दुस्थान समाचार