Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 17 फरवरीमासः (हि.स.)।केन्द्रीयगृहमन्त्री अमित शाह तथा मार्गपरिवहन-राजमार्गमन्त्री नितिन गडकरी सहिताः अनेकाः नेतारः महान् क्रान्तिकारी वासुदेव बलवंत फड़के इत्यस्य पुण्यतिथौ मंगलवासरे श्रद्धाञ्जलिं समर्पितवन्तः।
अमित शाह महोदयः एक्स् इत्यत्र लिखितवान् यत् महान् स्वाधीनतासेनानी अमरबलिदानी च फडके अङ्ग्रेज़शासनस्य विरुद्धं सशस्त्रक्रान्तेः आधारं दृढीकृतवान्। तेन युवजनाः मातृभूमेः स्वातन्त्र्यलक्ष्येन संयोजिताः।
नितिन गडकरी मराठीभाषया श्रद्धाञ्जलिं समर्प्य उक्तवान् यत् स्वातन्त्र्यसङ्ग्रामस्य प्रथमक्रान्तिकारी वासुदेवबलवन्तफडके इत्यस्य स्मृतिदिवसे तस्मै नमः करोमि।
कृषि-किसानकल्याणमन्त्री शिवराज सिंह चौहान तं मातृभारत्याः वीरसुतम्, सशस्त्रसङ्घटनस्य ‘रामोशी’ नायकम्, आद्यक्रान्तिवीरम् इति निर्दिश्य तस्य बलिदानदिवसे नमनम् अकरोत्। तेन उक्तं यत् मातृभूमेः स्वाधीनतायै दत्तं तस्य परमं बलिदानं युगयुगान्तरं प्रेरणां दास्यति।
मध्यप्रदेशस्य मुख्यमन्त्री मोहन यादव अपि फडके इत्यस्य पुण्यतिथौ श्रद्धाञ्जलिं समर्प्य उक्तवान् यत् तेन मातृभूमेः स्वातन्त्र्याय कोली, भील, धांगड़ समुदायान् एकत्रीकृत्य ‘रामोशी’ सङ्घटनम् स्थापितम् तथा पुणेनगरे स्वातन्त्र्यचेतना सुदृढीकृता।
उत्तरप्रदेशस्य उपमुख्यमन्त्री केशव प्रसाद मौर्य क्रान्तिकारीं बलिदानिनं फडके प्रति नमनं कृत्वा उक्तवान् यत् भारतीयस्वातन्त्र्यसङ्ग्रामे सशस्त्रक्रान्तेः शङ्खनादं कृत्वा तेन देशवासिनः एकत्र भूत्वा स्वाधीनतायै संघर्षाय आहूताः तथा स्वस्य अदम्यशौर्येण भाविक्रान्तिकारिणः प्रेरिताः।
-----------
हिन्दुस्थान समाचार