Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 17 फरवरीमासः (हि.स.)।केन्द्रीयसूचना-प्रौद्योगिकीमन्त्री अश्विनी वैष्णव इंडिया एआई इम्पैक्ट समिट इत्यस्मिन् उक्तवान् यत् आगामिद्विवर्षयोः अन्तरे भारतदेशे कृत्रिमबुद्धिमत्ता क्षेत्रस्य पञ्चसु स्तरषु द्विशत्-अरब-अमेरिकी-डॉलराधिकं निवेशः आगन्तुम् अपेक्षितः अस्ति। जोखिमपूंजी-संस्थाः गहन-प्रौद्योगिकी-स्टार्टअप्-क्षेत्रे, महत्सु समाधान-अनुप्रयोगेषु, अत्याधुनिक-मॉडेल्-अनुसन्धानम्, आधारसंरचना तथा ऊर्जास्तरेषु निवेशं कुर्वन्ति।
अस्मिन् अवसरे केन्द्रीयवाणिज्य-उद्योगराज्यमन्त्री जीतिन प्रसाद अपि उपस्थितः आसीत्। वैष्णवः भारत मंडपम इत्यत्र आयोजिते सत्रे उक्तवान् यत् भारतस्य महान् शक्तिः एषा अस्ति यत् अस्य देशस्य एकपञ्चाशत् प्रतिशत् विद्युत्-उत्पादन-क्षमता स्वच्छ-ऊर्जा-स्रोतःभ्यः आगच्छति। नरेंद्र मोदिनो दूरदर्शिता तथा स्वच्छ-ऊर्जा-प्रतिबद्धतया एतत् सम्भवितम्। एआई-कृते ऊर्जास्तरे निवेशस्य एषः महान् लाभः भारतं वैश्विक-स्तरे स्पर्धायोग्यं करिष्यति।
सः एआई-संबद्धान् संभावित-अपायान् निरूप्य उक्तवान् यत् वैश्विक-नेतृणां मध्ये एषा सम्मतिः भवति यत् एआई सदुपयोगाय एव भवेत्, तस्य हानिकारक-प्रभावाः निरोधनीयाः। केवलं विधान-निर्माणम् पर्याप्तं न भविष्यति, किन्तु तांत्रिक-वैधानिक-दृष्टिकोणौ अपि स्वीकरणीयौ। भारतस्य कृत्रिमबुद्धिमत्ता-सुरक्षा-संस्थानम् अनेकैः शैक्षणिक-संस्थाभिः सह मिलित्वा तादृशान् तांत्रिक-समाधानान् निर्माति ये एआई-दुष्प्रभावान् निरोद्धुं शक्नुवन्ति।
एनवीडिया इत्यस्य मुख्य-कार्यकारी-अधिकारिणो जेनसन हुआंग इत्यस्य सम्मेलनम् उपस्थातुम्असमर्थतायां विषये वैष्णवः उक्तवान् यत् सः व्यक्तिगत-कारणात् आगन्तुं न शक्तवान्, किन्तु स्वस्य वरिष्ठ-समूहं प्रेषितवान्। एनवीडिया भारतस्य अनेकाभिः कम्पनिभिः सह एआई-आधारसंरचना तथा सॉफ्टवेयर-क्षेत्रे महत्त्वपूर्ण-निवेशं करोति।
वैष्णवः उक्तवान् यत् भारतः स्वस्य दृढ-आईटी-क्षेत्रे तांत्रिक-परिवर्तनं रणनीतिक-रीत्या व्यवस्थापयति। शासन-उद्योग-शैक्षणिक-संस्थानानां सहयोगेन कर्मचारिणां कौशल-विकासः, नूतन-प्रतिभा-निर्माणम्, भविष्य-संततीनां सिद्धता च प्रमुख-उद्देश्याः सन्ति। एआई-आधारित-रीस्किलिंग-कार्यक्रमैः तथा शताधिकेषु महाविद्यालयेषु पाठ्यक्रम-संशोधनैः युवानो वैश्विक-अवसराणां कृते सज्जीक्रियन्ते।
-------------
हिन्दुस्थान समाचार