नवदिल्ली–नगरे भारतीय-प्रौद्योगिकी-संस्थान-खडगपुरेण ‘दशभुजा’–नमूना प्रदर्शिता
खडगपुरनगरम्, १७ फरवरीमासः (हि.स.)। भारतीय-प्रौद्योगिकी-संस्थान-खडगपुरस्य प्राध्यापकाणां दलं नवदिल्ली–नगरे आयोजिते भारत–बोधन–एआइ–कॉन्क्लेव–समारोहे सहभागं कृत्वा “दशभुजा” — शिक्षक–नेतृत्वाधिष्ठिता एआइ–समर्थिता कक्षाः इति आदर्श–स्वरूपं प्रदर्शितवान्।
आईआईटी खड़गपुर ने दशभुजा एआई मॉडल प्रस्तुत किया


आईआईटी खड़गपुर ने दशभुजा एआई मॉडल प्रस्तुत किया


आई आई टी खड़गपुर दिल्ली में


खडगपुरनगरम्, १७ फरवरीमासः (हि.स.)। भारतीय-प्रौद्योगिकी-संस्थान-खडगपुरस्य प्राध्यापकाणां दलं नवदिल्ली–नगरे आयोजिते भारत–बोधन–एआइ–कॉन्क्लेव–समारोहे सहभागं कृत्वा “दशभुजा” — शिक्षक–नेतृत्वाधिष्ठिता एआइ–समर्थिता कक्षाः इति आदर्श–स्वरूपं प्रदर्शितवान्। एष: प्रयत्न: शिक्षा–क्षेत्रे कृत्रिम–बुद्धिमत्तायाः (एआइ) एकीकरणाय साक्ष्य–आधारितं तथा अनुसन्धान–उन्मुखं स्वरूपं प्रस्तौति।

संस्थाने मङ्गलवासरे निर्गतायां विज्ञप्तौ अवदत् यत् प्रतिनिधिमण्डले प्रो.नीलोय–गाङ्गुली (अध्यक्षः—संगणक–विज्ञान–अभियांत्रिकी–विभागः), प्रो.प्लाबन्–भौमिक: (एआइ–प्रमुखः), प्रो.देबादित्य–राय: (सीएसई) तथा प्रो.डॉ.तुतन–अहमद: (वीजीएसओएम्) सम्मिलिताः आसन्।

प्राध्यापकाः अवदन् यत् “दशभुजा”–प्रयत्नं केवलं कक्षासु एआइ–उपकरणानां नियोजनपर्यन्तं न सीमिता, अपि तु विविधेषु आयुवर्गेषु एआइ–हस्तक्षेपाणां प्रभावस्य वैज्ञानिकं मूल्याङ्कनम् अपि करोति।

स: अवदत् यत् अस्य स्वरूपस्य अन्तर्गतं शिक्षकेभ्यः पाठ्यक्रम–अनुरूपं सहयोगं प्रदीयते; छात्र–सहभागिता, विषय–बोधः तथा अधिगम–फलितेषु सुधारः व्यवस्थितरूपेण माप्यते।

प्रतिनिधिमण्डले केन्द्रीय–शिक्षा–मन्त्रिणा सह, तथा भारतीय-प्रौद्योगिकी-संस्थान-मद्रासस्य निदेशकेन सह वरिष्ठैः नीतिनिर्मात्रिभिः, शिक्षाविद्भिः एवं उद्योग–प्रतिनिधिभिः सह संवादं कृतवान्। “दशभुजा”–इत्यस्य शिक्षक–केन्द्रिता तथा डेटा–समर्थिता कार्यपद्धतिः व्यापकां प्रशंसां लब्धवती।

हिन्दुस्थान समाचार / अंशु गुप्ता