मुम्बई–नगरे प्रधानमन्त्रिणा नरेन्द्रमोदिना फ्रांस–राष्ट्रपतेः एमैनुएल–माक्रों-इत्यस्य च मध्ये द्विपक्षीया वार्ता भविष्यति
नवदिल्ली, १७ फरवरीमास: (हि.स.)।अद्य मुम्बई–नगरे प्रधानमन्त्री–नरेन्द्रमोदिना फ्रांस–राष्ट्रपतेः इमैनुएल्–माक्रों-इत्यस्य च मध्ये उच्चस्तरीया द्विपक्षीया वार्ता भविष्यति। अस्यां वार्तायां उभौ नेतारौ भारत–फ्रांसयोः मध्ये विद्यमानानां सामरिक–सम्बन्धान
भारत और फ्रांस वार्ता


नवदिल्ली, १७ फरवरीमास: (हि.स.)।अद्य मुम्बई–नगरे प्रधानमन्त्री–नरेन्द्रमोदिना फ्रांस–राष्ट्रपतेः इमैनुएल्–माक्रों-इत्यस्य च मध्ये उच्चस्तरीया द्विपक्षीया वार्ता भविष्यति। अस्यां वार्तायां उभौ नेतारौ भारत–फ्रांसयोः मध्ये विद्यमानानां सामरिक–सम्बन्धानां नूतनाम् उन्नतिं दातुं, सुरक्षातः आरभ्य प्रौद्योगिकीपर्यन्तं बहुषु महत्त्वपूर्णेषु विषयेषु विचार–विमर्शं करिष्यतः।

विदेश–मन्त्रालयस्य आधिकारिकः प्रवक्ता रणधीर–जयसवालः मङ्गलवासरे ‘एक्स’–मञ्चे अवदत् यत् राष्ट्रपतेः माक्रों-इत्यस्य अस्याः यात्रायाः द्वौ प्रमुखौ पक्षौ स्तः। अद्य अपराह्णे सः मुम्बई–नगरे प्रधानमन्त्रिणा नरेन्द्रमोदिना सह उच्चस्तरीयां द्विपक्षीयां वार्तां करिष्यति। ततः परं राष्ट्रपतिः माक्रों ‘एआइ–इम्पैक्ट–समिट्’–सम्मेलने सहभागं कर्तुं दिल्लीं गमिष्यति।

स: अवदत् यत् अस्यां सभायां उभयदेशयोः मध्ये अङ्कीय–प्रौद्योगिकी–नवाचारः, छात्र–गतिशीलता, रक्षा–सुरक्षा, संस्कृतिः तथा हरित–मार्गाः (ग्रीन्–पाथवेज्) इत्यादिषु प्रमुखेषु क्षेत्रेषु सहकार्यस्य विस्ताराय विशेषं बलं दास्यते।

अतिरिक्ततया, नवाचार–क्षेत्रे भारत–फ्रांसदेशयोः सहकार्यस्य उत्सवः अपि आयोजयिष्यते, यस्मिन् अनेकानां प्रमुख–परियोजनानां विषये विचारः भविष्यति।

हिन्दुस्थान समाचार / Dheeraj Maithani