कालिंजरे विनिर्मास्यते ‘ऋषिकुल वैदिकग्रामः’, 30 कोटिरूप्यकाणां परियोजनया पर्यटनाय लप्स्यते वैश्विकपरिचयः
परियोजना का मास्टर प्लान पंचतत्व—पृथ्वी, जल, अग्नि, वायु और आकाश—पर आधारित होगा। इसमें ध्यान मंडप, सरस्वती वैदिक केंद्र, नक्षत्र डेक, आवासीय क्लस्टर व गेस्ट डवेलिंग्स, हाइड्रोथेरेपी पूल, पंचकर्म हीलिंग यूनिट, यज्ञशाला और कम्युनिटी एम्फीथिएटर जैसी सुव
प्रस्तावित वैदिक विलेज


बांदा, 17 फ़रवरीमासः (हि.स.)।

उत्तरप्रदेशस्य ऐतिहासिकस्य कालिंजरदुर्गस्य तलहटीप्रदेशे अष्टादशबीघा-परिमितायां भूमौ जिला पंचायत बांदा द्वारा प्रस्तावितः ‘ऋषिकुल वैदिक विलेज’ नाम बहुआयामी-परियोजना शीघ्रमेव राष्ट्रिय-अन्ताराष्ट्रिय-पर्यटन-मानचित्रे स्वीयां विशिष्टां पहचानं स्थापयिष्यति। लगभग त्रिंशत्-कोटि-रूप्यक-व्ययेन निर्मीयमाणः अयं प्रकल्पः षट्सु चरणेषु सम्पन्नः भविष्यति, यस्य प्रत्येकचरणस्य व्ययः प्रायः पञ्च-कोटि-रूप्यकः निर्दिष्टः अस्ति।

जिलापञ्चायतस्य कार्याधिकारी डॉ सुजीत कुमार मिश्रा अवदत् यत् एषा परियोजना सार्वजनिक-निजी-सहभागिता-आदर्शेन विकसिताऽ भविष्यति, यस्मिन् पूंजीपतयः, अभियन्तारः, अध्यापकाः, विधिवेत्तारः तथा सामान्यजनाः अपि निवेशं कर्तुं शक्नुवन्ति। तेन उक्तं यत् कलिंगा आर्किटेक्चर प्राइवेट लिमिटेड इत्यया संस्था २५ दिसम्बर २०२५ तमे दिने अस्याः परियोजनायाः सर्वेक्षणं कृतवती। अयं प्रकल्पः जिलापञ्चायतस्य स्वामित्वे स्थितासु भूमिषु खसरा-संख्यासु १०८२, १०८३, १०८४, १०८८ (समष्ट्या अष्टादश-बीघा-दश-बिस्वा) विकसितः भविष्यति। अस्य अनुमोदनं जिलापञ्चायतस्य आगामि-सभायां प्रस्तावितम् अस्ति।

‘ऋषिकुल वैदिक विलेज’ केवलं पर्यटनकेन्द्रं न भविष्यति, अपि तु “सचेतन-जीवन” इत्यस्य अवधारणायां आधारितः समग्र-जीवन-शैली-ग्रामः भविष्यति। अस्मिन् प्रकृतिः, आध्यात्मिकता, स्वास्थ्यं तथा सतत-विकास-सिद्धान्ताः कृष्या सह एकीकृताः भविष्यन्ति। कालिंजरदुर्गस्य ऐतिहासिक-परम्परां प्राकृतिक-परिवेशं च दृष्ट्वा एषा योजना क्षेत्रं वैशिष्ट्यपूर्णं वैश्विक-पर्यटन-गन्तव्यरूपेण विकसितं करिष्यति।

परियोजनायाः मुख्य-योजना पञ्चतत्त्वेषु— पृथ्वी, जल, अग्नि, वायु, आकाश— आधारिताऽ भविष्यति। अस्मिन् ध्यानमण्डपः, सरस्वती-वैदिक-केन्द्रम्, नक्षत्र-डेक्, आवासीय-क्लस्टराः तथा अतिथिगृहाणि, जलचिकित्सा-कुण्डः, पञ्चकर्म-चिकित्सा-केन्द्रम्, यज्ञशाला तथा सामुदायिक-रङ्गमञ्चः इत्यादयः सुविधाः विकसिताः भविष्यन्ति, यत्र सांस्कृतिक-आध्यात्मिक-कार्यक्रमाः आयोज्यन्ते।

एषा परियोजना न केवलं आध्यात्मिक-स्वास्थ्य-पर्यटनं प्रवर्धयिष्यति, अपि तु स्थानीय-युवकानां कृते नवीन-रोजगार-अवसरान् अपि स्रक्ष्यति। आतिथ्य-सेवा, कृषि, उद्यानिकी, पारम्परिक-हस्तशिल्प तथा वेलनेस-सेवाभिः क्षेत्रीय-अर्थव्यवस्था दृढीभविष्यति। तेन सह प्रकल्पे पञ्चधातुना नानाजी देशमुख इत्यस्य प्रतिमा अथवा स्तम्भः स्थापयितुं प्रस्तावः अपि अस्ति, यः अस्य वैदिक-ग्रामस्य सांस्कृतिक-पहचानं अधिकं सुदृढं करिष्यति।

---------------

हिन्दुस्थान समाचार