वायु–प्रदूषण–वृद्ध्या काठमाण्डूनगरं वैश्विक–स्तरे तृतीयं सर्वाधिक–प्रदूषितं नगरम्
काठमाण्डूनगरम्, १७ फरवरीमासः (हि.स.)। काठमाण्डू–नगरे वायु–प्रदूषणस्य तीव्रा वृद्धि जाता अस्ति। अद्य वैश्विक–स्तरे काठमाण्डूनगरं तृतीयं सर्वाधिकं प्रदूषितं नगरं इति स्थानं प्राप्नोति। दिल्लीनगरं २२९ एक्यूआई–मानेन प्रथमस्थाने अस्ति, ययपि लाहौरनगरं २०
वायु प्रदूषण से धुंधला काठमांडू


काठमाण्डूनगरम्, १७ फरवरीमासः (हि.स.)। काठमाण्डू–नगरे वायु–प्रदूषणस्य तीव्रा वृद्धि जाता अस्ति। अद्य वैश्विक–स्तरे काठमाण्डूनगरं तृतीयं सर्वाधिकं प्रदूषितं नगरं इति स्थानं प्राप्नोति। दिल्लीनगरं २२९ एक्यूआई–मानेन प्रथमस्थाने अस्ति, ययपि लाहौरनगरं २०३ एक्यूआई–मानेन द्वितीयस्थाने वर्तते।

मङ्गलवासरे अपराह्णकालपर्यन्तं काठमाण्डू–नगरे वायु–गुणवत्ता–सूचकाङ्कः (एक्यूआई) १९१ पर्यन्तं प्राप्तः, यः सोमवासरे १७८ आसीत्। एषः स्तरः ‘सर्वेषां कृते अस्वस्थः’ इति वर्गे अन्तर्भवति, येन विशेषतः बालकानां, वरिष्ठ–नागरिकाणां तथा श्वसन–हृदय–रोगपीडितानां जनानां स्वास्थ्य–समस्या अत्यधिका वर्धते।

एक्यूआई–मानकानुसारं ०–५० ‘उत्तमम्’ (हरितम्), ५१–१०० ‘सावधानता अपेक्षिता’ (पीतम्), १०१–१५० ‘संवेदनशील–समूहानां कृते अस्वस्थम्’, १५१–२०० ‘सर्वेषां कृते अस्वस्थम्’, २०१–३०० ‘अत्यन्तम् अस्वस्थम्’ तथा ३००–अधिकं ‘भयानकम्’ इति मन्यते।

पर्यावरण–विभागस्य महानिदेशकः ज्ञानराज–सुवेदी अवदत् यत् यदि अग्रिमेषु दिनेषु वृष्टिः न भविष्यति, तर्हि प्रदूषणस्तरः अधिकं वर्धितुं शक्नोति। वृष्टिः वायौ वर्तमानानां धूलि–कणानां निवारणे सहायकास्ति, अतः दीर्घकालीन–शुष्क–ऋतुना प्रदूषणवृद्धेः सम्भावना भवति। तेन सम्बन्धित–निकायान् स्थायी–पर्यावरण–अनुकूल–उपायानां प्रभावी–रूपेण कार्यान्वयनाय अपि परामर्शः दत्तः।

सुवेदिना वाहनानां तीव्रा वृद्धि:, डीज़ल–पेट्रोल–दहनजन्यः धूमः, मार्ग–अवसंरचना–परियोजनाभ्यः उद्भूतं रजः, वनाग्नयः तथा दीर्घकालीन–शुष्क–ऋतु:— एते सर्वे वायु–प्रदूषणस्य प्रमुखानि कारणानि इति निर्दिष्टम्। यदि समये समुचिताः उपायाः न स्वीक्रियन्ते, तर्हि स्थितिः अधिकं जटिला भविष्यति इति संचेतना अपि दत्ता।

काठमाण्डू–वायु–गुणवत्ता–प्रबन्धन–कार्ययोजना–२०७६ अन्तर्गतं नेपाल–सर्वकारः एक्यूआई–मानः ३००–अधिकः भवति चेत् तां स्थितिं ‘आपदा–अवस्था’ इति मन्यते। अस्या: अन्तर्गतं उद्घटितस्थाने कूटक–दहन–निषेधः, मार्ग–शुद्धीकरणाय मार्जनी–वैक्यूम–यन्त्राणां उपयोगवृद्धिः, तथा बालकानां, वरिष्ठ–नागरिकाणां रोगिणां च कृते सार्वजनिक–संचेतना–प्रसारणम् इत्यादयः उपायाः सन्ति।

राष्ट्रीय–पर्यावरण–नीतेः अनुसारं वायु:, जलम्, मृदा, ध्वनि:, विद्युत्–चुम्बकीय–तरङ्ग:, रेडियोधर्मी–उत्सर्जनस्य तथा रसायनजन्य–प्रदूषणस्य नियन्त्रणाय राष्ट्रीय–मानकानां निर्माणं कार्यान्वयनं च अनिवार्यम् अस्ति। तदनन्तरं प्रमुख–नगरेषु, औद्योगिक–क्षेत्रेषु तथा उच्च–समस्या–प्रदेशेषु निरीक्षण–केन्द्राणां स्थापना कृत्वा वायु–जल–ध्वनि–गुणवत्तायाः मानचित्रणस्य प्रावधानम् अपि कृतम् अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता