मध्यप्रदेशः - राज्यपालोऽद्यारभ्य इंदौरे देवी अहिल्याबाई विश्वविद्यालयस्य दीक्षांत समारोहे सम्मेलिष्यति
इंदौरम्, 17 फरवरीमासः (हि.स.)।मध्यप्रदेशस्य राज्यपालः मङ्गुभाई पटेल महोदयः अद्य मङ्गलवासरे इन्दौरनगरस्य प्रवासे भविष्यति। सः अत्र देवी अहिल्याबाई विश्वविद्यालयस्य दीक्षान्तसमारोहे सहभागी भविष्यति। निर्धारितकार्यक्रमानुसारं राज्यपालः पटेल महोदयः प्
राज्यपाल मंगुभाई पटेल (फाइल फोटो)


इंदौरम्, 17 फरवरीमासः (हि.स.)।मध्यप्रदेशस्य राज्यपालः मङ्गुभाई पटेल महोदयः अद्य मङ्गलवासरे इन्दौरनगरस्य प्रवासे भविष्यति। सः अत्र देवी अहिल्याबाई विश्वविद्यालयस्य दीक्षान्तसमारोहे सहभागी भविष्यति।

निर्धारितकार्यक्रमानुसारं राज्यपालः पटेल महोदयः प्रातः ११.३० वादने देवी अहिल्याबाई विश्वविद्यालय इन्दौरस्य दीक्षान्तसमारोहे उपस्थितो भविष्यति तथा विश्वविद्यालयपरिसरे एनीमिया जागरूकता कार्यक्रमस्य रथं हरितध्वजेन संकेतं दत्त्वा प्रेषयिष्यति। उक्तकार्यक्रमस्य अनन्तरं राज्यपालः पटेल महोदयः अपराह्णे २ वादने भोपालनगरं प्रति प्रस्थानं करिष्यति।

---------------

हिन्दुस्थान समाचार