Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, १७ फरवरीमास: (हि.स.)। देशे आपात्कालस्य घोषणायाः पञ्चाशत् वर्षाणि पूर्णतायाः अवसरपरिप्रेक्ष्ये हिन्दुस्थानसमाचारसंस्थया एकं विशेषं वैचारिकं आयोजनम् आयोज्यते। ‘आपात्कालः युवा च’ इति विषये केंद्रितं एतत् राष्ट्रीयं विमर्शं १९ फरवरीमासे २०२६ तमे भोपालनगरे आयोज्यते, यत्र देशस्य प्रबुद्धजनाः, चिन्तकाः च जनप्रतिनिधयः च मध्ये विस्तृतविचारः भविष्यति।
कार्यक्रमः अपराह्णे द्विवादने सैम ग्लोबल यूनिवर्सिटी, रायसेनमार्गस्य परिसरमध्ये आयोज्यते। आयोजनस्य उद्देश्यम् – आपात्कालस्य ऐतिहासिकः संदर्भः, तस्य सामाजिक-राजनैतिकः प्रभावः, वर्तमान-युवावंशाय तस्मात् प्राप्ताः संदेशाः इति विषयेषु गम्भीरं मंथनकरणम् अस्ति। आयोजकानां अनुसारं, एषः विमर्शः लोकतान्त्रिक-मूल्यानां तथा नागरिक-अधिकाराणां अवबोधनं दृढीकर्तुं महत्वपूर्णः प्रयासः अस्ति।
उल्लेखनीयम् – केन्द्रीयसर्वकारेण २५ जूनमासे १९७५ तमे दिने प्रवृत्तं आपात्कालं स्मृत्य प्रत्येकवर्षे २५ जूनमासे “संविधानहत्यादिवस:” इत्यस्मिन्नेव रूपेण मनायितुं निर्णयः कृतः। २५ जूनमासे १९७५ तमे दिने तत्कालीनप्रधानमंत्री इन्दिरागांधी देशे आपात्कालं प्रवर्तितवती। अस्मिन् कालखण्डे मौलिक-अधिकारेषु प्रतिबन्धाः, प्रेस-इत्यस्मिन्सेन्सरशिप, तथा बहूनां राजनैतिक-नेतानां ग्रहणं च आसीत्। अस्य दिवसस्य आयोजनस्य उद्देश्यम् – तस्मिन्काले लोकतन्त्रे पतितं गभीरप्रभावं स्मर्तुं अस्ति, संविधानस्य सर्वोच्चं रेखांकितुं, नागरिकाणां विशेषतः यूनां लोकतान्त्रिकस्वातन्त्र्याणां रक्षणाय सजगता प्रसारितुं च अस्ति।
अस्मिन् विशेष-आयोजने राष्ट्रियस्वयंसेवकसंघस्य पूर्व-सरकार्यवाहः वर्तमान-अखिलभारतीयकार्यकारिणी-सदस्यः सुरेशभैयाजी जोशी च प्रमुख-वक्तृत्वेन उपस्थित: भविष्यति। स: आपात्कालस्य अनुभवं, लोकतान्त्रिक-मूल्यानां रक्षणं, राष्ट्रनिर्माणे युवा-शक्तेः भूमिका च इत्यादिषु विषयेषु स्वविचारं प्रस्तोष्यति।
कार्यक्रमे मध्यप्रदेशस्य मुख्यमंत्री डॉ.मोहनयादव: मुख्यातिथित्वेन सहभागी भविष्यति। विशिष्टातिथित्वेन उपमुख्यमंत्री डॉ.राजेन्द्रशुक्लः तथा पूर्व-राज्यसभा-सदस्यः च लोकतन्त्र-सैनिकः संघस्य राष्ट्रीय-अध्यक्षः कैलाश सोनी च उपस्थित: भविष्यति। कार्यक्रमस्य अध्यक्षता हिन्दुस्थानसमाचार–समूहस्य अध्यक्षः अरविन्द: मार्डिकरः करिष्यति।
एतस्मिन् सम्बन्धे आयोजकाः तथा हिन्दुस्थानसमाचारसमूहस्य वरिष्ठपत्रकार: पद्मभूषण: पद्मश्री रामबहादुरराय: च मन्यन्ते – आपात्कालः भारतीय-लोकतन्त्रस्य इतिहासे महत्वपूर्णः अध्यायः अस्ति, यस्यानुभवाः शिक्षाः च नवयूनां पर्यन्तं प्रसारितव्या:। अस्य आयोजनस्य माध्यमेन यूनाम् अवबोधनाय प्रयत्नं क्रियते – यथायूनां भूमिका लोकतन्त्रस्य दृढीकरणे कियत्, तथा संवैधानिक-मूल्यानां रक्षणाय समाजः कथं सजगः स्यात्।
ध्यातव्यम् – हिन्दुस्थान समाचारेतण पूर्वमेव दिल्ली तथा गुजरातप्रदेशे अपि अस्य विषयस्य सफलानि आयोजनानि कृतानि। भोपालस्य एषः कार्यक्रमः तस्या: श्रृंखलायाः महत्वपूर्णः अङ्कः इव गण्यते। अत्र शिक्षाविदः, पत्रकाराः, सामाजिक-कार्यकर्तारः, छात्राः च विभिन्न-संघटनानां प्रतिनिधयः सहभागिनः भविष्यन्ति।
आयोजकाः अधिकातिशयेन जनान्, विशेषतः यून:, आमन्त्रणं कृत्वा कार्यक्रमे सम्मिलिताः एषु ऐतिहासिक-विषयेषु सम्वादस्य अङ्गं भविष्यन्ति इत्यस्मात् अपेक्षां कुर्वन्ति, यत् लोकतन्त्रस्य एषः महत्वपूर्णः अध्यायः अग्रिमवंशपर्यन्तं प्रभावकारी रूपेण प्रसारितः स्यात्।
हिन्दुस्थान समाचार / अंशु गुप्ता