Enter your Email Address to subscribe to our newsletters

नई दिल्ली, 17 फ़रवरी (हि.स.)। फ्रांसदेशस्य राष्ट्रपतिः इमैनुएल मैक्रों मंगलवासरे भारतयात्रायां मुम्बईनगरं प्राप्तवान्। अस्यां यात्रायाम् अवसानम् १९ फरवरी पर्यन्तं भविष्यति। अस्यां यात्रायां प्रधानमन्त्री नरेन्द्रमोदी तथा राष्ट्रपतिः मैक्रों मंगलवासरे द्विपक्षीयगोष्ठ्यां करिष्यतः तथा भारत फ्रांस नवाचार वर्ष २०२६ इत्यस्य शुभारम्भं करिष्यतः। एषा राष्ट्रपति मैक्रों इत्यस्य चतुर्थी भारतयात्रा अस्ति।
फ्रांसदेशस्य राष्ट्रपति इमैनुएलमैक्रों तथा प्रथममहिला ब्रिजिटमैक्रों मुम्बईनगरं प्राप्तवन्तौ, यत्र महाराष्ट्रस्य राज्यपालः आचार्यः देवव्रतः तथा मुख्यमंत्री देवेंद्रफडणवीसः तयोः स्वागतं कृतवन्तौ।
विदेशमन्त्रालयस्य प्रवक्ता रणधीरजायसवालः फ्रांसदेशस्य राष्ट्रपतेः भारतदौरे स्वागतं कृत्वा सामाजिकमाध्यममञ्चे एक्स इत्यत्र लेखं प्रकाशितवान्। तेन उक्तं यत् अस्य दौरे प्रधानमन्त्री मोदी तथा राष्ट्रपति मैक्रोंयोः मध्ये द्विपक्षीयबैठका भविष्यति। उभौ नेतारौ नवाचार वर्ष २०२६ इत्यस्य शुभारम्भं करिष्यतः। एषा यात्रा भारत फ्रांस सक्रिय रणनीतिक सहभागितायाः अधिकं वेगं दास्यति।
राष्ट्रपति मैक्रों अपि स्वयम् सामाजिकमाध्यमे भारतयात्रां विषये लेखं प्रकाशितवान् तथा ताम् अत्यन्तं महत्वपूर्णाम् उक्तवान्।
राष्ट्रपति मैक्रोंस्य भारतयात्रा अत्यन्तं महत्वपूर्णा मन्यते। राष्ट्रपति मैक्रों तथा प्रधानमन्त्री मोदी संयुक्तरूपेण इंडिया एआई इम्पैक्ट समिट् इत्यस्मिन् सम्मेलनभागं गृह्णीयाताम्। उभौ नेतारौ भारत फ्रांस नवाचार फोरम् अन्तर्गतं नवाचार क्षेत्रे, स्टार्ट अप सहयोगे, उच्चशिक्षायां अनुसंधाने च संयुक्तपरियोजनासु दृढनिर्णयान् अपि स्वीकुर्याताम्।
तस्य सह ११४ राफेल युद्धविमानानां महत्तरं रक्षासौदं सम्भाव्यते। अस्य सौदस्य रक्षा अधिग्रहण परिषद् द्वारा अतीव समीपे अनुमोदनं प्रदत्तम्। उभौ नेतारौ संयुक्तरूपेण कर्नाटकस्य वेमगल् प्रदेशे टाटा एयरबस् एच१२५ लाइट यूटिलिटी हेलिकॉप्टर इत्यस्य अन्तिम संयोजन रेखायाः उद्घाटनं अपि करिष्यतः।
उल्लेखनीयम् अस्ति यत् संयुक्त राष्ट्र सुरक्षा परिषद् विषये फ्रांसदेशः सर्वदा भारतस्य स्थायी सदस्यत्वस्य समर्थनं कृतवान् अस्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता