प्रयागराजनगरे १८ तथा २० फरवरीमासे ‘वाटरशेड् महोत्सवः’ आयोज्यते
प्रयागराजनगरम्, १७ फरवरीमासः (हि.स.)।प्रधानमन्त्री कृषि-सिंचन-योजना वाटर-सेट् डेवलपमेंट् 2.0 अन्तर्गतं प्रयागराजस्य कोरांव-विकासखण्डे १८-२० फरवरीमासे द्विदिवसीयः वाटरशेड्-महोत्सवः आयोज्यते। एतत् समाचारं मङ्गलवासरे प्रयागराजस्य भूमि-संरक्षण-अधिकारी
वाटर शेड महोत्सव का प्रतीकात्मक छाया चित्र


प्रयागराजनगरम्, १७ फरवरीमासः (हि.स.)।प्रधानमन्त्री कृषि-सिंचन-योजना वाटर-सेट् डेवलपमेंट् 2.0 अन्तर्गतं प्रयागराजस्य कोरांव-विकासखण्डे १८-२० फरवरीमासे द्विदिवसीयः वाटरशेड्-महोत्सवः आयोज्यते। एतत् समाचारं मङ्गलवासरे प्रयागराजस्य भूमि-संरक्षण-अधिकारी सुरेन्द्रप्रतापसिंह: दत्तवान्। स: उक्तवान् यत्- एषः महोत्सवः कृषि-विभागस्य अनुभागः भूमि-संरक्षण-इकाई फूलपुरम्, प्रयागराजनगरम् इत्यनेन आयोज्यते।

अयं महोत्सवः प्रधानमन्त्री कृषि-सिंचाय-योजना वाटर-सेट् डेवलपमेंट् 2.0 अन्तर्गतं विकासखण्डे कोरांव १८ एवं २० फरवरीमासे मन्यते। अस्मिन् कार्यक्रमे नवीन-कार्याणां भूमि-पूजनं तथा निष्पादित-कार्याणां लोकार्पणं क्रियते। अनेन सह कृषकाणां मध्ये जल-संरक्षण-भूमिसंरक्षणविषयकी जागरूकता वाटरशेड्महोत्सवेन प्रचारितं भविष्यति।

हिन्दुस्थान समाचार / Dheeraj Maithani