मन्त्री रामविचार: नेताम: २० फरवरीमासे एकलव्य–विद्यालयानां समीक्षां करिष्यन्ति
रायपुरनगरम्, १७ फरवरीमासः (हि.स.) – छत्तीसगढस्य आदिम–जाति–विकास–मन्त्री रामविचारनेतामस्य अध्यक्षतायाम् २० फरवरीमासे, अपराह्ण–२:३० वादने, आदिम–जाति–अनुसन्धान–एवं- प्रशिक्षण–संस्थानम्, सेक्टर–२४, अटल–नगरम्, नव–रायपुरम् इत्यस्य सभाकक्षे एकलव्य–आदर्श–आ
मंत्री  रामविचार नेताम


रायपुरनगरम्, १७ फरवरीमासः (हि.स.) – छत्तीसगढस्य आदिम–जाति–विकास–मन्त्री रामविचारनेतामस्य अध्यक्षतायाम् २० फरवरीमासे, अपराह्ण–२:३० वादने, आदिम–जाति–अनुसन्धान–एवं- प्रशिक्षण–संस्थानम्, सेक्टर–२४, अटल–नगरम्, नव–रायपुरम् इत्यस्य सभाकक्षे एकलव्य–आदर्श–आवासीय–विद्यालयानां समीक्षा–सभा आयोज्यते।

एतत् सम्बन्धिनपत्रं आयुक्त–कार्यालयेन प्रदेशस्य सर्वेभ्यः सहायक–आयुक्तेभ्यः, प्राचार्येभ्यः, प्रोजेक्ट–निदेशकेभ्य: भवन–निर्माण–संस्थाया: प्रतिनिधिभ्यः प्रेषितम्। सभावसरे निर्दिष्टे समये स्थानं च, एकलव्य–विद्यालयानां अद्यतन–स्थिति–विवरणेन अधिकारीभ्यः उपस्थितेः निर्देशः प्रदत्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता