शिरोमणि–गुरुद्वारा–प्रबन्धक–समितेः अध्यक्षः प्रधानः हरजिन्दरसिंह: अद्य रायपुरनगरम् आगमिष्यति
रायपुरनगरम्, १७ फरवरीमासः (हि.स.)। सिक्ख–पंथस्य सर्वोच्चसंस्था शिरोमणि–गुरुद्वारा–प्रबन्धक–समितेः अध्यक्षः हरजिन्दरसिंह: धामी एकदिवसीयप्रवासाय राजधान्यां रायपुरनगरे आगमिष्यन्ति। श्रीधामी राज्य–अल्पसंख्यक–आयोगस्य कार्यालयं आगत्य सिक्ख–पंथस्य गतिविधी
एसजीपीसी के प्रधान हरजिंदर सिंह ,फाइल फोटो


रायपुरनगरम्, १७ फरवरीमासः (हि.स.)। सिक्ख–पंथस्य सर्वोच्चसंस्था शिरोमणि–गुरुद्वारा–प्रबन्धक–समितेः अध्यक्षः हरजिन्दरसिंह: धामी एकदिवसीयप्रवासाय राजधान्यां रायपुरनगरे आगमिष्यन्ति। श्रीधामी राज्य–अल्पसंख्यक–आयोगस्य कार्यालयं आगत्य सिक्ख–पंथस्य गतिविधीनां विकासपरक–योजनानां च विषये चर्चां कृत्वा मार्गदर्शनं दास्यन्ति।

तस्य निर्गमानुसारं सः विमानमार्गे प्रातःकाले अमृतसरनगरात् रायपुरनगरं आगमिष्यति। अपराह्णे–१ वादने देवेंद्र–नगर–चतुष्पथे इत्यस्मिन्, पूर्व–विधायकः कुलदीपसिंह: जुनेजा, समाजसेवी जगजीतसिंह: खनुजा, जी.एस.भाम्बरा, रावांभाठा–स्थस्य नव–निर्मित–गुरुद्वारे प्रभारिणा अजीतसिंहेन च सह सिक्ख–समाजेन तं आत्मीयं स्वागतं क्रियते।

स्वागत–उपरांतं सः होटेल–बेबीलॉन–इंटरनेशनल इत्यस्मिन् छत्तीसगढस्य सर्वे गुरुद्वारा–प्रबन्धक–समितिभि: सामाजिक–संस्थायाः पदाधिकारभि: सह सिक्ख–समाजस्य गतिविधीनां विषये चर्चां करिष्यति। ततः सः बिलासपुर–मार्ग:, रावांभाठा इत्यत्र निर्मितस्य भव्य-ऐतिहासिकगुरुद्वारा-इत्यस्य उद्घाटनं करिष्यति।

संपूर्णे कार्यक्रमे एस.जी.पी.सी.–धर्म–प्रचार–समितेः सचिवः सरदार-बलविंदरसिंह: काहलवां, ओ.एस.डी. सतबीरसिंह:, सिक्ख–फोरम–अध्यक्षः बलदेवसिंह: भाटिया, राज्य–अल्पसंख्यक–आयोग–अध्यक्षः अमरजीतसिंह: छाबड़ा, सिक्ख–समाजस्य गणमान्यजनाः तथा समस्त-गुरुद्वाराणां प्रधानाः प्रमुखरूपेण सहभागिनः भविष्यन्ति।।

हिन्दुस्थान समाचार / अंशु गुप्ता