Enter your Email Address to subscribe to our newsletters

सोलनः, 17 फरवरीमासः (हि.स.)। हिमाचलप्रदेश राज्य अनुसूचितजाति आयोगस्य अध्यक्षः कुलदीप कुमार धीमान उक्तवान् यत् आयोगः संविधानप्रदत्त शक्तीनां अनुरूपं प्रदेशस्य अनुसूचितजातिवर्गस्य संरक्षणाय तेषां समस्यासमाधानाय च पूर्णतया प्रतिबद्धः अस्ति। सः सोलन नगरे अनुसूचितजाति समुदायस्य कल्याणाय कार्यरतैः गैरशासकीय संस्थाभिः नगरनिकायानां निर्वाचितप्रतिनिधिभिः आङ्गनवाडी आशा कार्यकर्तृभिः सह आयोजितस्य सभायाः अध्यक्षतां कुर्वन् आसीत्।
अस्यां सभायां आयोगस्य सदस्याः अधिवक्ता दिग्विजय मल्होत्रा विजय डोगरा शालिनी जमवाल च उपस्थिताः आसन्। अध्यक्षः अवदत् यत् संविधानमध्ये अनुसूचितजातीनां दुर्बलवर्गाणां च संरक्षणार्थं विशेष प्रावधानानि कृतानि सन्ति येषां प्रभावी क्रियान्वयनं सुनिश्चितं क्रियते।
तेन उक्तं यत् अत्याचारसम्बद्धेषु प्रकरणेषु आयोगः शून्यसहिष्णुता नीतिं स्वीकृतवान् अस्ति यथा दोषिणः समयबद्धं दण्डं प्राप्नुयुः पीडिताः च त्वरितं न्यायं लभेरन्। वर्ष २०२४ मध्ये गठनानन्तरं आयोगेन जिलास्तरे संवादस्य नूतना पहल आरब्धा अस्ति यस्याः अन्तर्गतं अधिकारिभ्यः पूर्वं जनप्रतिनिधिभिः सामाजिकसंस्थाभिः सह विचारविमर्शः क्रियते। अध्यक्षेन आश्वासनं दत्तं यत् प्राप्तानां शिकायतानां समयबद्धं निवारणं सुनिश्चितं भविष्यति।
हिन्दुस्थान समाचार