तमिलनाडोः 2026-27 अंतरिमवित्तीयप्रस्तावः प्रस्तुतः, कल्याण, शिक्षा, क्रीडा , सांस्कृतिक अवसंरचना इत्येषु बलम्
चेन्नई, 17 फरवरीमासः (हि.स.)। थंगम थेनारासु, तमिलनाडु-राज्यस्य वित्तमन्त्री, मंगलवासरे फोर्ट् सेंट् जॉर्ज्-स्थिते विधानसभागृहे २०२६–२७ वर्षस्य अन्तरिम-बजटम् प्रस्तुतवान्। अस्मिन् बजटे विधानसभानिर्वाचनात् पूर्वं कल्याण-योजनाः, शिक्षा, क्रीडा-विकास
आज (17 फरवरी) सुबह 9:30 बजे वित्त मंत्री थंगम थेनारासु ने विधानसभा में तमिलनाडु सरकार का अंतरिम बजट पेश किया।


चेन्नई, 17 फरवरीमासः (हि.स.)।

थंगम थेनारासु, तमिलनाडु-राज्यस्य वित्तमन्त्री, मंगलवासरे फोर्ट् सेंट् जॉर्ज्-स्थिते विधानसभागृहे २०२६–२७ वर्षस्य अन्तरिम-बजटम् प्रस्तुतवान्। अस्मिन् बजटे विधानसभानिर्वाचनात् पूर्वं कल्याण-योजनाः, शिक्षा, क्रीडा-विकासः तथा सांस्कृतिक-अवसंरचना इत्येषु विशेष-प्राधान्यं निर्दिष्टम्।

वित्तमन्त्री अवदत् यत् क्रीडा-विकासाय ७१८ कोटि-रूप्यकाणि, ग्रामीण-विकास-विभागाय २८,६८७ कोटि-रूप्यकाणि, विशेष-कार्यक्रम-कार्यान्वयन-विभागाय १७,०८८ कोटि-रूप्यकाणि च विनियोजितानि। तेषु १० कोटि-रूप्यकाणि विश्वव्यापि-प्रवासी-समुदायेषु तमिळ-भाषा-प्रचाराय शिक्षणाय च निर्दिष्टानि।

ग्रामीण-सड़क-योजनायै ८,९११ कोटि-रूप्यकाणि, उच्च-शिक्षा-विभागाय ८,५०५ कोटि-रूप्यकाणि, दिव्याङ्गजन-कल्याण-विभागाय १,४०० कोटि-रूप्यकाणि, स्वास्थ्य-विभागाय २२,०९० कोटि-रूप्यकाणि, श्रम-कल्याण-विभागाय १,९९६ कोटि-रूप्यकाणि च विनियोजितानि।

सामाजिक-कल्याण-प्राथमिकतायाः अन्तर्गतं विधवा, निराश्रिता-महिला, वृद्ध-जनाः इत्येभ्यः सामाजिक-सुरक्षा-पेन्शन-योजनाभ्यः ५,४६३ कोटि-रूप्यकाणि निर्दिष्टानि। विद्यालय-शिक्षायै ४८,५३४ कोटि-रूप्यकाणि, उच्च-शिक्षायै ८,५०५ कोटि-रूप्यकाणि च आवंटितानि।

दिव्याङ्गजन-कल्याणाय १,४७१ कोटि-रूप्यकाणि घोषिता। तेषां नियुक्तिषु चतु:-प्रतिशत-आरक्षणं, सार्वजनिक-रोजगारे पदोन्नति-अवसराः च सुनिश्चिताः।

वित्तमन्त्री अवदत् यत् मुख्यमन्त्रिणः नाश्ता-योजनया राजकीय-विद्यालयेषु छात्राणां उपस्थिति-शिक्षा-फलयोः उल्लेखनीयः विकासः जातः। विरासत-पर्यटन-विकासार्थं तंजावुरे चोल-संग्रहालयः, गंगैकोंडचोलपुरम्-प्रदेशे संग्रहालयः, इरोड्-जिले नोय्याल-संग्रहालयः, रामनाथपुरम्-जिले नावाय्-संग्रहालयः, चेन्नै-एग्मोर-सरकारी-संग्रहालये नूतन-कांस्य-सिन्धुघाटी-दीर्घाः, तिरुवण्णामलै-प्रदेशे तमिळ-सांस्कृतिक-संग्रहालयः च प्रस्ताविताः। एतेषां कृते २८५ कोटि-रूप्यकाणि विनियोजितानि।

कीझाडि तथा पोरुनै-संग्रहालययोः उद्घाटनानन्तरं जनानां उत्कृष्ट-प्रतिक्रिया प्राप्ता। ‘कलैग्नार् मगलीर् उरिमै-तिट्टम्’ योजनया महिलाभ्यः प्रति-मासं १००० रूप्यकाणि भत्ता प्रदीयते। “विडियाल्” बस्-यात्रा-योजनया महिलाभ्यः प्रति-मासं औसत्येन ८८८ रूप्यकाणां सञ्चयः भवति। महिला-अधिकार-सहायता-योजनया ५००० रूप्यक-सहायता-प्रदानं कृतम्। महिला-स्वसहायता-समूहानां १.४१ लक्ष-कोटि-रूप्यक-ऋणं दत्तम्। १९ “थोज़ी” छात्रावासाः सञ्चालिताः।

‘कलैग्नर् कनवु इल्लम्’ योजनया २०३० वर्षपर्यन्तं ८ लक्ष-गृहाणि निर्मीयन्ते; अद्यपर्यन्तं १.७१ लक्ष-गृहाणि निर्मितानि। ६ लक्ष-विद्यार्थिभ्यः लॅपटॉप्-यन्त्राणि वितरितानि। ३८ नूतन-कला-विज्ञान-महाविद्यालयाः आरब्धाः। “तमिळ् पुधल्वन्” योजनया ५,४०,५११ छात्राः प्रति-मासं १००० रूप्यकाणि प्राप्नुवन्ति।

“मक्कलाई थेडी मरुथुवम्” गृह-चिकित्सा-योजनया २.५५ कोटि-जनाः लाभान्विताः। “अनबु सोलै” केन्द्राणि २५ स्थानेषु स्थापितानि। “नलम् काक्कुम् स्टालिन्” योजनया १७ लक्ष-जनाः लाभान्विताः। इलेक्ट्रॉनिक्स्-उत्पादने ४१ प्रतिशत-योगदानेन तमिलनाडु-राज्यं देशे प्रथम-स्थाने अस्ति। सेमिकण्डक्टर-परियोजनायै पञ्च-वर्षीय-कार्ययोजनया ५०० कोटि-रूप्यकाणि विनियोजितानि।

११.१९ प्रतिशत-विकास-दरेण तमिलनाडु-राज्यं आर्थिक-वृद्धौ अग्रस्थाने अस्ति। श्रीलङ्का-निवासिभ्यः तमिळ-शरणार्थिभ्यः कल्याणाय ४५६ कोटि-रूप्यकाणि आवंटितानि। चोल, नोय्याल, वेण्कल-संग्रहालयानां कृते २८५ कोटि-रूप्यकाणि व्ययः। प्रवासी-तमिळ-जनानां कृते १० कोटि-रूप्यक-योजना आरब्धा; अष्टसु अन्य-राज्येषु विदेशेषु च तमिळ-अध्ययन-अवसराः निर्मिताः।

निःशुल्क-प्रातराश-योजनया १९.३४ लक्ष-छात्राः लाभान्विताः। स्वच्छता-कर्मचारिभ्यः ३०,००० अतिरिक्त-गृहाणि निर्मीयन्ते। १०४८ देवालयानां ८,३६३ कोटि-रूप्यक-मूल्य-सम्पत्तयः पुनः प्राप्ताः; ८,१०० कोटि-रूप्यक-व्ययेन देवालय-जीर्णोद्धार-कार्याणि कृतानि।

पर्यटन-क्षेत्रे तमिलनाडु-राज्यं देशे प्रथम-स्थाने अस्ति; पर्यटन-विभागाय १,३९४ कोटि-रूप्यकाणि, नदी-तट-विकास-योजनायै ३७४ कोटि-रूप्यकाणि, आदिवासी-समुदाय-गृह-निर्माणाय ७५५ कोटि-रूप्यकाणि च आवंटितानि।

आर्थिक-संकट-समये श्रीलङ्का-देशाय १९७ कोटि-रूप्यक-मूल्य-सहायता-सामग्री प्रेषिता, या मानवीय-सहायतायाः प्रति तमिलनाडु-राज्यस्य प्रतिबद्धतां प्रकाशयति।---------------

हिन्दुस्थान समाचार