पण्डित–दीनदयाल–उपाध्यायस्य अन्त्योदय–सिद्धान्तं व्यवहाररूपेण अवतारणमेव सङ्घटनस्य मूलं ध्येयम् — अशोक–चौरसिया
जौनपुरनगरम्, १७ फरवरीमासः (हि.स.)। उत्तर–प्रदेशस्य जौनपुर–जनपदे भारतीय जनतापक्षस्य जनपदकार्यालये ‘पण्डित–दीनदयाल–उपाध्याय–प्रशिक्षण–महाअभियानम्’–अन्तर्गतं मङ्गलवासरे एका महत्त्वपूर्णा कार्यशाला आयोजिता। अस्यां कार्यशालायां सङ्घटनस्य सुदृढीकरणं, वैच
पंडित दीन दयाल उपाध्याय कार्यशाला में उपस्थित मुख्य अतिथि अशोक चौरसिया और अन्य पदाधिकारी


पंडित दीन दयाल उपाध्याय प्रशिक्षण महाअभियान’ कार्यशाला में भाग लेते हुए बीजेपी कार्यकर्ता


जौनपुरनगरम्, १७ फरवरीमासः (हि.स.)। उत्तर–प्रदेशस्य जौनपुर–जनपदे भारतीय जनतापक्षस्य जनपदकार्यालये ‘पण्डित–दीनदयाल–उपाध्याय–प्रशिक्षण–महाअभियानम्’–अन्तर्गतं मङ्गलवासरे एका महत्त्वपूर्णा कार्यशाला आयोजिता। अस्यां कार्यशालायां सङ्घटनस्य सुदृढीकरणं, वैचारिक–सुदृढता तथा अग्रिम–अभियानानां सफलताविषये विस्तृता रणनीतिः चर्चिता। जनपदस्य विविधभागेभ्यः आगताः पदाधिकारिणः कार्यकर्तारश्च सक्रियां सहभागितां कृतवन्तः।

कार्यक्रमस्य मुख्यातिथिः जनपदप्रभारी अशोक: चौरसिया स्व–सम्बोधने अवदत् यत् पंडितदीनदयाल-उपाध्याय–इत्यस्य अन्त्योदय–सिद्धान्तं व्यवहाररूपेण अवतारणमेव सङ्घटनस्य मूलं ध्येयम् अस्ति। प्रशिक्षण–महाभियानस्य माध्यमेन कार्यकर्तॄणां सङ्घटन–विचारधारायां, कार्यपद्धतौ तथा जनसम्पर्क–कौशलविकासे दक्षता वर्धते, येन ते केन्द्र–प्रदेश–सर्वकारयोः जनकल्याणकारी–योजनाः अन्तिमव्यक्तिपर्यन्तं प्रापयितुं समर्था: भवन्ति—इति तेन उक्तम्।

विशिष्टातिथिः पूर्व–सांसदः डॉ.के.पी.–सिंहः अवदत् यत् भाजपापक्षस्य सङ्घटनात्मक–संरचना एव तस्याः महत्बलम्। सः कार्यकर्तॄन् अनुशासनं, समर्पणं तथा सक्रियतां च अवलम्ब्य कार्यं कर्तुं आह्वानं कृतवान्। कार्यक्रमस्य अध्यक्षतां जनपदाध्यक्षः अजीत–प्रजापतिः अकरोत्। स: अवदत् यत् बूथ–स्तरपर्यन्तं सङ्घटनस्य सुदृढीकरणमेव अस्य प्रशिक्षण–महाअभियानस्य मुख्योद्देश्यम्; सर्वैः पदाधिकारीभिः ‘मिशन–मोड्’–इत्यनेन भावेन कार्यं कर्तव्यम्।

कार्यक्रमस्य संचालनं जनपद–महामन्त्री सुनील–तिवारिणा कृतम्। सभायां जनपद–महामन्त्री पीयूष–गुप्तः, सुशील–मिश्रः, अमित–श्रीवास्तवः, पूर्व–जनपदाध्यक्षः सुशील–उपाध्यायः, डीसीएफ–अध्यक्षः धनञ्जय–सिंहः, जिला–उपाध्यक्षः सुधाकर–उपाध्यायः, जनपद–मन्त्री रवीन्द्र–सिंहः ‘दादा’, आईटी–संयोजकः रोहन–सिंहः, सह–संयोजकः अवनीश–यादवः, सामाजिक–पटल–संयोजकः सिद्धार्थ–रायः तथा जनपद–पत्रकार–प्रभारी अमोद–सिंहेन सह अनेके पदाधिकारिणः उपस्थिताः आसन्। कार्यशालायां जनपद–प्रशिक्षण–अभियानस्य संयोजक–सहसंयोजकौ, सर्वे मोर्चा–प्रकोष्ठ–पदाधिकारिणः तथा मण्डल–अध्यक्षाश्च सहभागं कृतवन्तः। अन्ते जनपदाध्यक्षेन सर्वेषां कार्यकर्तॄणां कृतज्ञता प्रकटिता, प्रशिक्षण–महाभियानं पूर्ण–निष्ठया सफलं कर्तुं संकल्पश्च दत्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता