Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, 17 फ़रवरीमासः (हि.स.)।
मूलशिक्षा-अधिकारी राजेश श्रीवास्तवो मंगलवासरे प्रातःकाले गैपुरा-चतुष्पथः पर्यटक-यानयोः हरित-ध्वजं प्रदर्श्य परिषदीय-विद्यालयानां बालकान् ‘एक्सपोजर-विजिट्’ कृते प्रेषितवान्। राष्ट्रिय-आविष्कार-परीक्षायां सफलाः शतं छात्र-छात्र्यः द्वाभ्यां बसयानाभ्यां शैक्षणिक-भ्रमणाय प्रेषिताः।
बीईओ अवदत् यत् बालकान् प्रथमं कैलहट-क्षेत्रस्य जिवनाथपुर-स्थितां बिस्किट-कारखानां दर्शयिष्यन्ति, यत्र ते उत्पादन-प्रक्रियाम् समीपतः अवगन्तुं शक्नुवन्ति। ततः परं ते बनारस हिंदू यूनिवर्सिटी परिसरं नीयन्ते। तत्र विविध-विद्याशाखानां विभागानां च अवलोकनं कृत्वा उच्च-शिक्षा-संस्थानानां वातावरणेन परिचिता भविष्यन्ति।
सः उक्तवान् यत् एतादृश-कार्यक्रमाणां मुख्य-उद्देशः बालकानां मौलिक-क्षमतायाः विकासः तथा उच्च-शिक्षायां प्रति जिज्ञासायाः प्रेरणायाः च जागरणम् अस्ति।
अस्मिन् ‘एक्सपोजर-विजिट्’ कार्यक्रमे प्रधानाध्यापकाः अमरेश-शुक्लः, प्रेम-शंकर-मिश्रः, विजयधर-द्विवेदी, महीप-शुक्लः, अञ्जनी-यादवः, मानिकराज-सिंहः, दीनानाथ-तिवारी, एआरपी-मञ्जुला-देवी, विवेक-पाण्डेयः, अमित-मिश्रः, प्रांसू-सिंहः च विशेषज्ञरूपेण बालकैः सह उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार