Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १७ फरवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी मङ्गलवासरे अवदत् यत् – बुद्धिमत्ता, तर्कशीलता निर्णयक्षमता च विज्ञान-प्रौद्योगिक्याः जनसर्वस्य उपयोगाय आधारं निर्मातुं समर्था इति। स: उक्तवान् – कृत्रिमबुद्धिमत्ता (एआई) इव उन्नत-यन्त्रविद्या तदैव सार्थका, यदा सा समाजस्य व्यापक-कल्याणाय प्रयुक्ता भवेत्।
इंडिया-एआई-इम्पैक्ट-समिट् इत्यस्य शिखरसम्मेलनस्य प्रमुख-उद्देश्यं एतत् अस्ति – कथं आर्टिफिशियल इंटेलिजेन्स् सर्वजनहिताय प्रभावकारी रूपेण प्रयुक्ता स्यात्। स: स्पष्टं कृतवान् – भारतदेश: यन्त्रविद्यां मानव-केंद्रित-दृष्टिकोणेन अग्रे वृद्धिं कुर्वन्ति।
प्रधानमन्त्री ‘एक्स’ सामाजिक-माध्यमे संस्कृत-सुभाषितं अपि प्रेषितवान्, यस्मिन् बुद्धेः गुणाः उल्लिखिताः –
शुश्रूषा श्रवणं चैव ग्रहणं धारणा च।ऊहापोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः॥
सुभाषितस्यार्थः – शिक्षायाम् इच्छाशक्ति:, मननपूर्वकं श्रवणं, सम्यक् अवबोधनं, धारणायाः क्षमता, तर्कवितर्कः, अर्थस्य गहनं ज्ञानं, तत्त्वज्ञानं च – एते सर्वे ‘धी’ अर्थात् बुद्धेः गुणाः।
प्रधानमन्त्री उक्तवान् – एआई-विकासाय तथा तस्य उत्तरदायित्वपूर्ण-प्रयोगाय अपि एते गुणाः आवश्यकाः। केवलं तकनीकी-कुशलता पर्याप्ता नास्ति; विवेकः, नैतिकता च समाजहित-संवेदना अपि समं आवश्यकाः।
स: विश्वासं त्यक्तवान् – शिक्षा, स्वास्थ्यम्, कृषिः, सुशासनम् इत्यादिषु क्षेत्रेषु एआई-माध्यमेन सकारात्मकपरिवर्तनं आनयित्वा भारतदेश: यन्त्रविद्यां जनकल्याणाय शक्तिमन्तं साधनं करिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता