Enter your Email Address to subscribe to our newsletters

परीक्षाणां निरीक्षणाय 5 क्षेत्रीयाधिकारिणः, 6 सचल दलानि,18 खंडन्यायिकाधिकारिणः वर्तन्ते- डीआईओएस
मुरादाबादम्, 18 फरवरीमासः (हि.स.)।
उत्तरप्रदेशमाध्यमिकशिक्षापरिषदः तत्वावधानेन उत्तरप्रदेशीयमाध्यमिकपरिषद्परीक्षाः मुरादाबादजनपदे ११२ परीक्षा केन्द्रेषु सकुशलं शान्तिपूर्णं च प्रारब्धाः। जिलाविद्यालयनिरीक्षकस्य अनुसारं नियन्त्रणकक्षात् परीक्षाणां ऑनलाइन पर्यवेक्षणं क्रियते।
जिलाविद्यालयनिरीक्षकः देवेन्द्रकुमारपाण्डेयः अवदत् यत् जनपदे हाईस्कूल् तथा इंटरमीडिएट् परीक्षायां समग्रतः ७५,७६० परीक्षार्थिनः पंजीकृताः सन्ति। तेषु दशम्यां कक्षायां ३९,५६० तथा द्वादश्यां कक्षायां ३६,२०० छात्राः छात्र्यश्च परीक्षां दास्यन्ति।
परीक्षाणां पर्यवेक्षणार्थं ५ क्षेत्रीयाधिकाधिकारिणः, ६ सचलदलानि, १८ खंडाधिकारिणः, १० रात्रिकालीनपर्यवेक्षणदलानि, ११२ स्थिराधिकारिणः, ११२ केन्द्रव्यवस्थापकाः तथा ११२ वाह्यकेन्द्रव्यवस्थापकाः नियुक्ताः सन्ति। एकः संकलनकेन्द्रः तथा ३ उपसंकलनकेन्द्राणि अपि निर्मितानि सन्ति।
हिन्दुस्थान समाचार