Enter your Email Address to subscribe to our newsletters

हिसारनगरम्, १८ फरवरीमासः (हि.स.)। गुरु–जम्भेश्वर–विज्ञान–प्रौद्योगिकी–विश्वविद्यालयस्य राष्ट्रिय–सेवा–योजना (एन.एस.एस.) एककस्य सौजन्येन १९ फरवरीमासात् २५ फरवरीदिनाङ्कपर्यन्तं मुकलान–स्थिते राजकीय–उच्च–माध्यमिक–विद्यालये सप्तदिवसीयं विशेषं ग्राम्य–शिविरं आयोजयिष्यते।
“डिजिटल–जागरूकता तथा अभिनव–भारतं : युवा–शक्तेः संकल्पः” इति विषयं केन्द्रीयं कृत्वा अस्मिन् शिविरे विश्वविद्यालयस्य ३०० स्वयंसेवकाः एवं स्वयंसेविकाः पञ्जीकृताः सन्ति, ये सप्तदिनपर्यन्तं ग्राम्य–क्षेत्रे जन–जागरूकता–सेवा–कार्यक्रमेषु सक्रियं सहभागितां करिष्यन्ति।
विश्वविद्यालयस्य कुलपतिः प्रो.नरसीरामः बिश्नोई बुधवासरे उक्तवान् यत् अद्यतन–युगे डिजिटल–सशक्तीकरणं तान्त्रिक–दक्षतायाः सामाजिक–परिवर्तनस्य च प्रभावात्मकं साधनम् अस्ति। यदा युव–शक्तिः तन्त्रज्ञानं लोक–कल्याणेन सह संयोज्यते, तदा एव वास्तविकतया अभिनवस्य विकसितस्य च भारतस्य निर्माणं सम्भवति।
प्रो.बिश्नोई अपि अवदत् यत् विश्वविद्यालयस्य उद्देश्यं केवलं शैक्षणिक–उत्कर्षे सीमितं नास्ति, अपि तु सामाजिक–दायित्व–निर्वहणेन राष्ट्र–निर्माणे सार्थकं योगदानं दातुम् अपि अस्ति। तेन स्वयंसेवका: आहूता: यत् ते डिजिटल–जागरूकता, स्वच्छता तथा सामाजिक–समरसता–सन्देशान् ग्रामे ग्रामे प्रसार्य विकसित–हरियाणा तथा विकसित–भारतस्य संकल्पं साकारयन्तु।
एन.एस.एस.–कार्यक्रम–समन्वयिका डॉ.अञ्जु गुप्ता सूचितवती यत् विश्वविद्यालयस्य कुलपतिः प्रो.नरसीरामः बिश्नोई उद्घाटन–समारोहस्य मुख्यातिथिः भविष्यति। शिविरकाले डिजिटल–साक्षरता–अभियानम्, विकसित–भारत–विकसित–हरियाणा विषयकः संवादः, स्वच्छता–संकल्पः, कन्या–संरक्षण–कन्या–शिक्षा अभियानम्, नशामुक्ति–चेतना–संचलनम्, ग्राम्य–जागरूकता–कार्यक्रमाः, सांस्कृतिक–प्रस्तुतयः, वीथी–नाटकानि तथा राम–राम–अभियानम् इत्यादीनां जन–सम्पर्क–कार्यक्रमाणां आयोजनं भविष्यति।
हिन्दुस्थान समाचार / Dheeraj Maithani