एआई इंपैक्ट एक्सपो इत्येतत् एकस्मै दिनाय अग्रे वर्धितम्
नव दिल्ली, 18 फरवरीमासः (हि.स.)। इण्डिया एआई इम्पैक्ट सम्मिट् इत्यस्य उत्कृष्टप्रतिसादं दृष्ट्वा अस्य कार्यक्रमस्य अवधि एकेन दिनेनेव वर्धिता अस्ति। भारतमण्डपे प्रवर्तमानम् एआई इम्पैक्ट एक्स्पो अधुना शनिवासरे, २१ फरवरी दिनाङ्के अपि उद्घाटितं भविष्
मीडिया से बातचीत करते सचिव


नव दिल्ली, 18 फरवरीमासः (हि.स.)।

इण्डिया एआई इम्पैक्ट सम्मिट् इत्यस्य उत्कृष्टप्रतिसादं दृष्ट्वा अस्य कार्यक्रमस्य अवधि एकेन दिनेनेव वर्धिता अस्ति। भारतमण्डपे प्रवर्तमानम् एआई इम्पैक्ट एक्स्पो अधुना शनिवासरे, २१ फरवरी दिनाङ्के अपि उद्घाटितं भविष्यति। किन्तु श्वः १९ दिनाङ्के विश्वनेतॄणां महत्त्वपूर्णसंवादस्य कारणेन एषः एक्स्पो सामान्यजनानां कृते निरुद्धः भविष्यति।

इलेक्ट्रॉनिक्स तथा सूचना प्रौद्योगिकी मन्त्रालयस्य सचिवः एस् कृष्णन् इत्यनेन माध्यमैः सह संवादे एतत् सूचितम्। तेन उक्तम् यत् प्राप्तप्रतिसादं दृष्ट्वा कार्यक्रमस्य अवधिवृद्धेः निर्णयः कृतः। श्वः विदेशात् आगच्छन्तीनां अतिथीनां स्वागतव्यवस्थायाः तथा सुरक्षाव्यवस्थायाः कारणेन १९ फरवरी दिनाङ्के एक्स्पो सामान्यजनानां कृते न उद्घाटितः भविष्यति।

गलगोटिया विश्वविद्यालयसम्बद्धे विवादे विषये सचिवः अवदत् यत् वयं न इच्छामः यत् एषः एक्स्पो नकारात्मकप्रचारस्य कारणेन प्रभावितः भवेत्। अतः मिथ्याज्ञानं प्रदर्शयन्तं प्रदर्शकम् अस्मात् कार्यक्रमात् निष्क्रमितुं निर्दिष्टम्।

-----------

हिन्दुस्थान समाचार