Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १८ फरवरीमासः (हि.स.)।सेशेल्स–उपराष्ट्रपति: सेबेस्टियनः पिल्ले तथा मॉरिशस–प्रधानमन्त्री नवीनचंद्रः रामगुलाम: भारतीय-ए.आई.–इम्पैक्ट-समिट-मध्ये भागं ग्रहीतुं बुधवासरे भारतं आगतवन्तौ। तयो: स्वागतं केन्द्रीय–जलशक्ति–राज्यमंत्री डॉ.राजभूषणः चौधरी विमानपत्तने कृत्वा अभिनन्दितवान्।
विदेश–मन्त्रालयस्य प्रवक्ता रणधीरः जायसवालः एक्समध्ये एतां सूचनान प्रकटितवान् यत् मॉरिशस–प्रधानमन्त्री रामगुलाम: तथा सेशेल्स–उपराष्ट्रपति: पिल्ले ए.आई.–शिखर–सम्मेलनाय भारतं आगतवन्तौ।
प्रवक्ता अपि उक्तवान् यत् समुद्री–सहयोगस्य निकटतमा दीर्घकालिकी सहभागिता सेशेल्स: ए.आई.–इम्पैक्टसमिटमध्ये उपराष्ट्रपतिन: उपस्थित्या संयुक्त–द्विपक्षीय कार्यक्रमेषु अधिकां गतिम् ददाति। डिजिटल–सहयोगः भारत–मॉरिशस उन्नत–रणनीतिक–सहभागिता–स्तम्भरूपं धृतवान्, येन जनानां मध्ये प्रगाढं ऐतिहासिकं च सम्बन्धं अधिष्ठितम्।
हिन्दुस्थान समाचार / Dheeraj Maithani