14 कोसी परिक्रमामार्गे प्रयोक्ष्यते डेकोरेटिवदीपाः, रामपथं भविष्यति प्रकाशितम्
-माध्ये 1005 अथ च उपमार्गे 2010 पोल्स इत्यत्र प्रयोक्ष्यन्ते डेकोरेटिव-दीपाः - श्रद्धालुओं को मिलेगा भव्य अनुभव, पूरी परिक्रमा मार्ग पर आधुनिक लाइटिंग व्यवस्था -सौंदर्यीकरणेन सह सुरक्षापि दृढा, रात्रौ अपि सुगमा भविष्यति परिक्रमा अयोध्या, 18 फ
राम पथ लाइट


-माध्ये 1005 अथ च उपमार्गे 2010 पोल्स इत्यत्र प्रयोक्ष्यन्ते डेकोरेटिव-दीपाः

- श्रद्धालुओं को मिलेगा भव्य अनुभव, पूरी परिक्रमा मार्ग पर आधुनिक लाइटिंग व्यवस्था

-सौंदर्यीकरणेन सह सुरक्षापि दृढा, रात्रौ अपि सुगमा भविष्यति परिक्रमा

अयोध्या, 18 फ़रवरीमासः (हि.स.)।निर्माणाधीनः १४ कोसी परिक्रमा मार्गः शीघ्रमेव दीपेन प्रकाश्यते। योगिनः आदित्यनाथस्य शासनस्य उपक्रमेण अस्मिन् ऐतिहासिके आध्यात्मिके च मार्गे प्रायः ५० कोटिरूप्यकव्यये भव्यसौन्दर्यदीपव्यवस्था क्रियमाणा अस्ति। एषा परियोजना अयोध्यायाः आस्थायाः नूतनं आयामं दास्यति तथा पर्यटनवृद्धौ अपि महत्वपूर्णं पदं स्थापयिष्यति।

१४ कोसी परिक्रमा अयोध्या नगरस्य अतीव पवित्रासु परम्परासु एका अस्ति। अयं मार्गः प्रायः ४०–४५ किलोमीटरपरिमितः, सरयू नदी तीरे विस्तीर्णः, रामभक्तानां कृते प्रमुखं श्रद्धाकेंद्रं च मन्यते। श्रीराम मंदिर उद्घाटनानन्तरं अयोध्यायां आगच्छतां श्रद्धालूनां संख्या अत्यधिकं वर्धिता अस्ति। विशेषतः कार्तिकमासे लक्षशः कोटिशः भक्ताः अत्र परिक्रमां कुर्वन्ति।

अधुना मार्गस्य विस्तारीकरणकार्यं प्रचलति। चतुर्लेनमार्गनिर्माणं क्रियते। नूतने मार्गे भव्यदीपव्यवस्था विधीयते, केषुचित् स्थलेषु स्थापिता अपि अस्ति। मध्यरेखायां १००५ ध्रुवस्तम्भेषु, पदपथे २०१० स्तम्भेषु च सौन्दर्यदीपाः स्थापिताः भविष्यन्ति। समग्रतया रामपथधर्मपथवत् व्यवस्था भविष्यति।

प्रत्येकस्मिन् पदे श्रीरामकृपायाः अनुभूतिः

लोकनिर्माणविभागस्य खण्ड ३ अधिशासी अभियन्ता सत्यपालसिंह महोदयेन उक्तं यत् निर्माणकार्यं शीघ्रतया प्रवर्तते। समग्रपरिक्रमामार्गे आधुनिकाः आकर्षकाः च सौन्दर्यदीपाः स्थापिताः भवन्ति। एते दीपाः मार्गस्य शोभां वर्धयिष्यन्ति तथा रात्रौ अपि परिक्रमां सुगमां सुरक्षितां च करिष्यन्ति। विन्यासदीपव्यवस्थया मार्गः दिव्यानुभवं प्रदास्यति, यत्र प्रत्येकपदे श्रीरामस्य कृपायाः अनुभूति भविष्यति।

एषा परियोजना सौन्दर्यीकरणेन सह सुरक्षां अपि सुदृढां करिष्यति। पूर्वं रात्रौ अन्धकारकारणेन दुर्घटनाशङ्का आसीत्, अधुना तु एलईडी आधारित ऊर्जासंरक्षकदीपव्यवस्थया समग्रमार्गः पूर्णतया प्रकाशितः भविष्यति। अनेन श्रद्धालवः निर्भयतया रात्रौ अपि परिक्रमां कर्तुं शक्नुवन्ति।

पर्यटनकेंद्ररूपेण अयोध्यायाः विकासः

मुख्यमन्त्रिणा योगिना आदित्यनाथेन अयोध्यां वैश्विकस्तरीयरूपेण धार्मिकनगरीकर्तुं संकल्पः कृतः। राममन्दिरस्य सह १४ कोसी परिक्रमा मार्गस्य विस्तारीकरणं, कुण्डानां जीर्णोद्धारः, चतुर्लेनमार्गाः, शौचालयाः, विश्रामस्थलानि अन्यसुविधाः च विकसिताः सन्ति। एषा दीपपरियोजना तस्याः श्रृंखलायाः महत्वपूर्णः अंशः मन्यते। अनेन अयोध्या न केवलं धार्मिककेंद्रं, अपि तु पर्यटनस्य प्रमुखकेंद्रं अपि भविष्यति। दिव्यप्रकाशव्यवस्थया श्रद्धालवः अत्यन्तं हर्षिताः सन्ति।

हिन्दुस्थान समाचार