अमितशाहः गांधीनगरे छत्रपति–शिवाजी–महाराजस्य प्रतिमायाः अनावरणं कृतवान्
गांधीनगरम्, १८ फरवरीमास: (हि.स.)। गांधीनगरस्य सेक्टर–२१–स्थिते महाराष्ट्र–भवने केन्द्रीय–गृह–सहकारिता–मन्त्री अमितशाहः मङ्गलवासरे छत्रपति–शिवाजी–महाराजस्य भव्य-प्रतिमायाः अनावरणं कृतवान्। कार्यक्रमं सम्बोधयन् अमितशाहः अवदत् यत् एषा शिवाजी–महाराजस्
अमित शाह ने किया गांधीनगर में छत्रपति शिवाजी महाराज की प्रतिमा का अनावरण


गांधीनगरम्, १८ फरवरीमास: (हि.स.)। गांधीनगरस्य सेक्टर–२१–स्थिते महाराष्ट्र–भवने केन्द्रीय–गृह–सहकारिता–मन्त्री अमितशाहः मङ्गलवासरे छत्रपति–शिवाजी–महाराजस्य भव्य-प्रतिमायाः अनावरणं कृतवान्।

कार्यक्रमं सम्बोधयन् अमितशाहः अवदत् यत् एषा शिवाजी–महाराजस्य प्रतिमा वर्तमान-अग्रिमाय च वंशाय साहसस्य, रणनीतेः तथा ‘स्वराज’–संकल्पस्य निरन्तरां प्रेरणां दास्यति। सः अवदत् यत् शिवाजी–महाराजस्य शौर्यगाथाः सुशासनस्य च आदर्शाः अद्यापि समाजं मार्गदर्शनं कुर्वन्ति।

शिवाजी–महाराजस्य ऐतिहासिकं योगदानं निर्दिशन् सः अवदत् यत् यदा देशस्य महत् भागः दास्य–बन्धनैः बद्धः आसीत्, तदा केवलं षोडशवर्षीयावस्थायामेव शिवाजी–महाराजः रायरेश्वर–महादेव–मन्दिरे ‘हिन्दवी–स्वराज्य’–स्थापनायाः संकल्पं कृतवान्। माता-जीजाबाय्याः संस्कारैः दृढसंकल्पेन च सः स्वातन्त्र्यस्य स्वाभिमानस्य च नूतनां दिशां प्रदर्शितवान्।अमितशाहः अवदत् यत् शिवाजी–महाराज्ञा मन्दिराणां संरक्षण–पुनर्स्थापनयोः यः मार्गः दर्शितः, तस्मिन्नेव मार्गे प्रधानमन्त्री नरेन्द्र–मोदी–नेतृत्वे अयोध्यायां राम–मन्दिर–निर्माणं, काशी–विश्वनाथ–परिसर:, सोमनाथ–मन्दिर–विकासः इत्यादीनां बहूनां धार्मिक–स्थलानां विकासः कृतः, येन सनातन–परम्परा सुदृढा अभवत्।

सः अवदत् यत् शिवाजी–महाराजः स्वभाषायै महत्त्वं दत्त्वा प्रशासनमध्ये भारतीय–भाषाणां प्रोत्साहनं कृतवान्, भारतीय–नौसेनायाः आधारं स्थापयितुं च कार्यं कृतवान्।राष्ट्रीय–कविं झवेरचन्द–मेघाणीं स्मरन् अमितशाहः अवदत् यत् तस्य रचनासु शिवाजी–महाराजस्य वीरता अद्यापि बालानां यूनां च मध्ये देशभक्ति–भावनां जागरयति।

मूर्तिकारस्य कलां प्रशंसन् अमितशाहः अवदत् यत् अश्वारूढा अग्रसरन्ती च एषा शिवाजी–महाराजस्य प्रतिमा अत्यन्तं जीवन्ता भव्या च अस्ति, या गांधीनगरस्य शोभां वर्धयित्वा अग्रिमवंशस्य कृते राष्ट्रभक्तेः प्रेरणां दास्यति।

अस्मिन् अवसरे गुजरात–प्रदेशस्य उपमुख्यमन्त्री हर्ष–संघवी, भाजप–प्रदेशाध्यक्षः विधायकश्च जगदीश–विश्वकर्मा, गांधीनगर–महापौरः मीराबेन–पटेल:, विधायकः रीताबेन–पटेल:, उप–महापौरः नटुजी–ठाकोरः, स्थायी–समितेः अध्यक्षः गौराङ्ग–व्यासः, गांधीनगर–जनपदाधिकारी मेहुल–दवे, जनपद–आरक्षी–अधीक्षकः रवि–तेजा–वासम–शेट्टी, सोनलबेन–शाह:, महाराष्ट्र–भवनस्य प्रबन्ध–न्यासी सुधीर–रघुनाथ–विचारे इत्यादिभि: सह महाराष्ट्र–समाजस्य अनेके जनाः बहुसंख्यायां उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता