Enter your Email Address to subscribe to our newsletters

रायपुरम् 18 फ़रवरीमासः (हि.स.)।
मुख्यमंत्री विष्णुदेवसायः अद्य बुधवासरे अनेकेषु कार्यक्रमेषु सहभागी भविष्यति। मुख्यमन्त्रिकायालयात् प्राप्तसूचनानुसारं सः प्रातः ९.३० वादने मोवानगरे स्थितं सतनामभवनं गमिष्यति। ततः १०.५५ वादने मुख्यमंत्री मन्त्रालयं प्राप्स्यति, यत्र सः विभिन्नविभागीयबैठकेषु सहभागी भविष्यति।
अपराह्णे ३ वादने सः रायपुरनगरात् बिलासपुरजनपदस्य बोदरीस्थानं प्रति प्रस्थितः भविष्यति तथा तत्र मुख्यन्यायाधीशस्य निवासं गमिष्यति। अनन्तरं सायंकाले प्रायः ७ वादने मुख्यमंत्री सायः रायपुरं प्रति पुनरागमिष्यति।
हिन्दुस्थान समाचार