Enter your Email Address to subscribe to our newsletters

भोपालम्, 18 फ़रवरीमासः (हि.स.)।
मध्यप्रदेशस्य मुख्यमंत्री डॉ. मोहन यादवः महान्तम् आध्यात्मिकगुरुम्, सन्तं चिन्तकं च स्वामिनं रामकृष्णपरमहंसं तस्य जयंतीदिने प्रणम्य श्रद्धां प्रकटितवान्। तेन उक्तं यत् परमहंसस्य प्रेम, करुणा, सरलता तथा सार्वभौमभ्रातृत्वस्य संदेशाः समाजाय प्रेरणादायकाः सन्ति, ये सत्यस्य सदाचारस्य च मार्गं प्रदर्शयन्ति।
मुख्यमंत्री डॉ. यादवः बुधवासरे सामाजिकमाध्यमे ‘एक्स’ इत्यत्र स्वसंदेशे अवदत् यत् “आध्यात्मिकगुरोः स्वामी रामकृष्णपरमहंसस्य जयंतीदिने अहं सादरं नमनं करोमि। मोक्षमार्गस्य प्रशस्त्यर्थं तेन श्रद्धाभक्तिसहितं मानवसेवाम् श्रेष्ठतमं साधनं निरूपितम्। तपसा योगेन ध्यानस्य च प्रभावेण तस्य आध्यात्मिकयात्रा सर्वदा प्रेरणां दास्यति।”
---------------
हिन्दुस्थान समाचार