देशस्य 10 राज्यानां 37 राज्यसभासनानां द्विवार्षिकनिर्वाचनस्य अधिसूचना 26 फरवरी तमे दिनांके, 16 मार्च दिनांके भविष्यति मतदानम्
नव दिल्ली, 18 फरवरीमासः (हि.स.)। भारतनिर्वाचन-आयोगेन दशसु राज्येषु सप्तत्रिंशत् राज्यसभासनानां द्विवार्षिकनिर्वाचनस्य घोषणा कृता। सर्वासां आसनानां कृते षड्विंशतितमे फेब्रुवरिमासे अधिसूचना प्रकाशितं भविष्यति तथा षोडशे मार्चमासे मतदानं भविष्यति। त
Election commission


नव दिल्ली, 18 फरवरीमासः (हि.स.)।

भारतनिर्वाचन-आयोगेन दशसु राज्येषु सप्तत्रिंशत् राज्यसभासनानां द्विवार्षिकनिर्वाचनस्य घोषणा कृता।

सर्वासां आसनानां कृते षड्विंशतितमे फेब्रुवरिमासे अधिसूचना प्रकाशितं भविष्यति तथा षोडशे मार्चमासे मतदानं भविष्यति। तस्मिन्नेव दिने परिणामस्य अपि घोषणा भविष्यति।

आयोगेन बुधवासरे विज्ञप्तिः प्रकाशित्वा एषा सूचना प्रदत्ता। आयोगेन उक्तं यत् एतेषां सर्वेषां राज्यसभासदस्यानां कार्यकालः एप्रिल्मासे समाप्तुं गच्छति।

एतेषु सप्तत्रिंशत् आसनेषु महाराष्ट्रराज्यस्य सप्त, ओडिशाराज्यस्य चत्वारि, तमिलनाडुराज्यस्य षट्, पश्चिमबङ्गराज्यस्य पञ्च, असमराष्ट्रस्य त्रयः, बिहारराज्यस्य पञ्च, छत्तीसगढराज्यस्य द्वे, हरियाणाराज्यस्य द्वे, हिमाचलप्रदेशस्य एकम्, तेलङ्गाणाराज्यस्य द्वे आसने समाविष्टानि सन्ति।

महाराष्ट्रराज्ये डा भगवत किशनराव कराड, डा फौजिया तहसीन अहमद खान, प्रियंका विक्रम चतुर्वेदी, शरदचन्द्र गोविन्दराव पवार, धैर्यशील मोहन पाटिल, रजनी अशोकराव पाटिल, रामदास बांदु आठवले।

ओडिशाराज्ये ममता मोहंता, मुजिबुल्ला खान, सुजीत कुमार, निरंजन बिशी।

तमिलनाडुराज्ये एन आर एलंगो, पी सेल्वारासु, एम थम्बिदुरई, तिरुचि शिवा, डा कनिमोझी एनवीएन सोमु, जी के वासनः।

पश्चिमबङ्गराज्ये साकेत गोखले, रीताब्रत बनर्जी, बिकाश रंजन भट्टाचार्य, मौसाम नूर पञ्चमे जनवरी द्विसहस्रषट्विंशतितः रिक्तम्, सुभ्रत बक्शी।

असमराज्ये रामेश्वर तेली, भुवनेश्वर कलिता, अजीत कुमार भुइयां।

बिहारराज्ये अमरेन्द्र धारी सिंह, प्रेमचन्द गुप्ता, रामनाथ ठाकुर, उपेन्द्र कुशवाहा, हरिवंश नारायण सिंहः।

छत्तीसगढराज्ये कवि तेजपाल सिंह तुलसी, फूलो देवी नेताम।

हरियाणाराज्ये किरण चौधरी, रामचन्दर जांगड़ा।

हिमाचलप्रदेशे इन्दु बाला गोस्वामी।

तेलङ्गाणाराज्ये डा अभिषेक मनु सिंघवी, के आर सुरेश रेड्डी।

---------------

हिन्दुस्थान समाचार