Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 18 फरवरीमासः (हि.स.)।केन्द्रीयसूचनाप्रसारणमन्त्री अश्विनी वैष्णव इण्डिया एआई इम्पैक्ट् समिटस्य द्वितीयदिने ‘वेव्स क्रिएटर्स कॉर्नर’ इत्यस्य उद्घाटनम् अकरोत्। एषः मञ्चः पूर्णतया नवोन्मेषकेन्द्ररूपेण स्थापितः अस्ति, यत्र कृत्रिमबुद्ध्या एनिमेशन वीएफएक्स गेमिङ् कॉमिक्स एक्सटेण्डेडरियलिटी इत्यादीनां तन्त्रज्ञानानां नूतनप्रयोगाः प्रदर्श्यन्ते।
केन्द्रीयसूचनाप्रसारणमन्त्रालयस्य निवेदनानुसारं उद्घाटनसमये वैष्णवः पवेलियनम् अवलोकितवान् तथा च वेवएक्स् स्टार्टअप् समूहस्य उद्यमिभिः सह एडोबी नेटफ्लिक्स् सोनी अमेज़न इत्यादीनां प्रमुखकम्पनीनां अधिकृतैः सह संवादम् अकरोत्। सः उक्तवान् यत् एषः मञ्चः मन्त्रालयस्य योजनानां यथा वेवएक्स् वेव्सबाजारः क्रिएटइनइण्डिया चैलेंजेस् इत्यादीनां विस्ताररूपः अस्ति।
अस्मिन् अवसरे माध्यममनोरञ्जनक्षेत्रस्य एकपञ्चाशत् स्टार्टअप्स् स्वीयाः एआईआधारिततन्त्रज्ञानानि नूतनानुभवान् च प्रस्तुतवन्तः। तेषु भाषासेतु कलासेतु चैलेंजेस् इत्येतयोः विजेतारः अपि सम्मिलिताः आसन्। वैष्णवः एतेभ्यः उद्यमिभ्यः सह संवादं कृत्वा तेषां प्रयासान् प्रशंसितवान्।
सः उक्तवान् यत् एआई समाजे गम्भीरप्रभावं जनयति तथा च एषा तन्त्रविद्या ग्रामीणभारतस्य युवभ्यः विश्वस्तरीयानि स्टार्टअप्स निर्मातुं अवसरं प्रददाति।
पवेलियने नूतनतन्त्रज्ञानप्रदर्शनम् अभवत्। तेषु रियलटाइम् गेमडेवलपमेन्ट् प्रॉम्प्टटूसिनेमा लाइवस्टूडियो एआईआधारितन्यूजरूम इत्येतत् त्वरितस्वरनकलतन्त्रं बहुभाषीचैट् अनुप्रयोगः २७०डिग्री एआई फिल्मप्रदर्शनम् मुखस्वरयोः आयुपरिवर्तनतन्त्रं च निरचिह्न मोशनकॅप्चर् सुविधा च सम्मिलिताः आसन्।
वैष्णवः आईआईसीटी संस्थायाः प्रशंसाम् अकरोत् या रचनात्मकशिक्षायाम् एआई समावेश्य विद्यार्थिनः परिवर्तमानउद्योगस्य अपेक्षानुसारं सज्जीकर्तुं प्रयत्नं करोति। सः उक्तवान् यत् वेव्स क्रिएटर्स कॉर्नर सम्मेलनस्य समग्रकालावधौ विशेषज्ञचर्चाः चलचित्रनिर्मातृणां मास्टरक्लास इति तकनीकीसत्राणि च आयोजयिष्यति।
---------------
हिन्दुस्थान समाचार