भारत–क्रोएशिया–इत्येताभ्याम् ए.आई.क्षेत्रे स्वच्छ–ऊर्जाक्षेत्रे अन्यक्षेत्रेषु च सहयोगं वृद्धिं कर्तुं चर्चां कृतवन्तौ
नवदिल्ली, १८ फरवरीमास: (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी अद्य भारतीय-ए.आई.–इम्पैक्ट–सम्मेलनात् पृथक् क्रोएशिया–प्रधानमन्त्री आंद्रेजप्लेंकोविचेन सह द्विपक्षीयवार्तां कृतवान्। उभयोः नेत्रो: भारत–क्रोएशिया–संबन्धान् अधिकं दृढीकरणं कर्तुम्, कृत्रिमबु
क्रोएशिया के प्रधानमंत्री आंद्रेज प्लेंकोविच से मुलाकात करते प्रधानमंत्री मोदी


क्रोएशिया के प्रधानमंत्री आंद्रेज प्लेंकोविच से द्विपक्षीय वार्ता करते प्रधानमंत्री मोदी


क्रोएशिया के प्रधानमंत्री आंद्रेज प्लेंकोविच से द्विपक्षीय वार्ता करते प्रधानमंत्री मोदी


नवदिल्ली, १८ फरवरीमास: (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी अद्य भारतीय-ए.आई.–इम्पैक्ट–सम्मेलनात् पृथक् क्रोएशिया–प्रधानमन्त्री आंद्रेजप्लेंकोविचेन सह द्विपक्षीयवार्तां कृतवान्। उभयोः नेत्रो: भारत–क्रोएशिया–संबन्धान् अधिकं दृढीकरणं कर्तुम्, कृत्रिमबुद्धिमत्ता (ए.आई.), सूचना-संवाद–प्रौद्योगिकी, नवोन्मेषः, स्वच्छ–ऊर्जा च इत्यादिषु नवक्षेत्रेषु सहयोगं वृद्धिं कर्तुम् तौ चर्चां कृतवन्तौ।

विदेश–मन्त्रालयस्य प्रवक्ता रणधीरजायसवालः एक्स-मध्ये सूचितवान् यत् उभयोः नेत्रो: भारत–यूरोपीयसंघ–मुक्त–वाणिज्य–सन्धि: शीघ्रं प्रवर्तयितुं प्रयासं कर्तुं सहमति: अभवत्। वार्तायाम् प्रधानमन्त्रीमोदिना क्रोएशिया–जनानां भारतीयसंस्कृतिं प्रति विशेषतया इन्डोलॉजी-योग-आयुर्वेदेषु च गहनरुचिं प्रशंसितम्।

उल्लेखनीयम् यत् १६–२० फरवरीमासे आयोज्यते एतत् शिखर–सम्मेलनं स्वकीयक्षेत्रस्य विश्वस्य चतुर्थौ सम्मेलनम् अस्ति। अद्यपर्यन्तं त्रीणि वैश्विक–ए.आई.–सम्मेलनानि आयोजितानि। एतेषां प्रारम्भः २०२३ तमे वर्षे ब्रिटेनस्य ब्लेच्ली–प्रांगणमध्ये आयोजितात् ए.आई.–सुरक्षा–शिखर–सम्मेलनात् जातः। ततः २०२४ तमे वर्षे दक्षिण–कोरिया–देशे ए.आई.–सोल्–शिखर–सम्मेलनम्, २०२५ तमे वर्षे फ्रान्स–राजधानी–पेरिस् मध्ये ए.आई.–क्रियान्वयन–शिखर–सम्मेलनम् आयोजितम्।

हिन्दुस्थान समाचार / अंशु गुप्ता