प्रधानमंत्री अकरोत् स्पेनस्य राष्ट्रपतिना सह द्विपक्षीया वार्ता, परस्परं संबंधान्प्रगाढ़ान् कर्तुं बलम्
नवदिल्ली, 18 फ़रवरीमासः (हि.स.)। प्रधानमन्त्री नरेंद्रमोदी इण्डिया एआई इम्पैक्ट शिखर सम्मेलनस्य अवसरात् परे पेड्रो सञ्चेज इत्यनेन सह द्विपक्षीयां वार्ताम् अकरोत्। अस्यां वार्तायां उभौ नेतारौ भारतस्पेनदेशयोः मध्ये सहकारं अधिकं सुदृढं कर्तुं बलम् अ
स्पेन के राष्ट्रपति पेड्रो सांचेज से मुलाकात करते प्रधानमंत्री मोदी


स्पेन के राष्ट्रपति पेड्रो सांचेज से द्विपक्षीय वार्ता करते प्रधानमंत्री मोदी


नवदिल्ली, 18 फ़रवरीमासः (हि.स.)।

प्रधानमन्त्री नरेंद्रमोदी इण्डिया एआई इम्पैक्ट शिखर सम्मेलनस्य अवसरात् परे पेड्रो सञ्चेज इत्यनेन सह द्विपक्षीयां वार्ताम् अकरोत्। अस्यां वार्तायां उभौ नेतारौ भारतस्पेनदेशयोः मध्ये सहकारं अधिकं सुदृढं कर्तुं बलम् अदत्ताम्।

विदेशमन्त्रालयस्य प्रवक्ता रणधीर जायसवाल इति सामाजिकमाध्यममञ्चे एक्स इत्यस्मिन् सूचितवान् यत् इण्डिया एआई इम्पैक्ट समिट् इत्यस्मिन् सहभागित्वार्थम् आगतस्य स्पेनदेशस्य राष्ट्राध्यक्षस्य पेड्रो सांचेज् इत्यस्य सह प्रधानमन्त्री मोदी द्विपक्षीयां वार्ताम् अकरोत्। तस्यां चर्चायां उभयोः देशयोः मध्ये सहकारस्य अधिकगहनतां प्रति नानाविषयेषु विस्तीर्णा चर्चा अभवत्।

ते उचतुः यत् अस्मिन् सम्मेलने उभयोः नेतृभ्यां व्यापारः अर्थव्यवस्था नवोन्मेषः स्वास्थ्यं जलवायुपरिवर्तनस्य क्रियान्वयनम् शिक्षा च इत्यादिषु विषयेषु विस्तीर्णा विचारविनिमयः कृतः। अनन्तरं प्रधानमन्त्री मोदी स्पेनदेशस्य राष्ट्राध्यक्षं सांचेज् भारतयूरोपीयसंघयोः सम्बन्धान् सुदृढीकर्तुं तेन प्रदत्तस्य निरन्तरसहयोगस्य प्रशंसाम् अकरोत्।

उल्लेखनीयम् यत् स्पेनदेशस्य राष्ट्राध्यक्षः पेड्रो सांचेजः कृत्रिमबुद्धिमत्ताविषये विश्वस्य चतुर्थे शिखर सम्मेलने सहभागितुं अद्य प्रातःकाले भारतम् आगतः। अस्मिन् सन्दर्भे केन्द्रीयमन्त्री जयन्त चौधरी विमानस्थानके तस्य स्वागतं कृतवान्।

---------------

हिन्दुस्थान समाचार