Enter your Email Address to subscribe to our newsletters

राँचीनगरम्, १८ फरवरीमास: (हि.स.)। झारखण्ड–विधानसभाया: वित्तसत्रम् बुधवासरे राज्यपाल-संतोषकुमार-गंगवारस्य अभिभाषणेन सह आरब्धम्। सत्रस्य प्रथमदिने विधानसभा परिसरे राज्यपालाय गार्ड-ऑफ-ऑनर प्रदत्तः, तथा सचिवः अविनाशकुमारः तं पुष्प–गुच्छेन सम्मानितवान्।
विधानसभा–अध्यक्षः रवीन्द्रनाथः महतो सदस्यानां स्वागतं कुर्वन् उक्तवान् यत् एतत् वित्तसत्रम् राज्यस्य विकासदिशां निश्चेतुं महत्वपूर्ण: अवसर: अस्ति। सः उक्तवान् यत् एतत् सत्रं केवलं आय–व्ययविवरणं प्रस्तोतुं न अस्ति, किन्तु राज्यस्य विकासयात्रायाः मार्गदर्शकं अपि अस्ति।
अध्यक्षस्य वचनेन स्पष्टम् यत् अस्मिन् सत्रे वित्तीयवर्षस्य २०२५–२६ तृतीय–अनुपूरक–वित्तविवरणं प्रस्तुतं भविष्यति, तथा २४ फरवरीदिनाङ्के वित्तीयवर्षस्य २०२६–२७ वार्षिक–वित्तविवरणं सदन–पटलस्य उपरि स्थापयिष्यते। एतत् राज्यस्य नीतयः, योजनाः, वित्तीय–प्राथमिकताः, संसाधनस्य न्याययुक्त–वितरणं च निर्धारितुं सहाय्यं करिष्यति।
सः अपेक्षां कृतवान् यत् सदस्याः अनुदान–याचना:, न्यूनीकरण–प्रस्तावाः, नीतिगत–विचारा: इत्यादिभिः सार्थकं तथ्यपरकं च चर्चां कुर्वन्तु। अध्यक्षः उक्तवान् यत् लोकतन्त्रस्य शक्ति: संवादे विमर्शे च निहिताः सन्ति; मतभेदाः स्वाभाविकाः, किन्तु सदनस्य गरिमा, अनुशासनं च परंपरापालनं च सर्वोपरि।
सत्रस्य विशेषता यत् विधानसभाया: कार्यं कर्गदरहितं प्रारब्धम्। अध्यक्षः सूचितवान् यत् नेशनल ई–विदान एप्लिकेशन (नेवा) परियोजना अंशतः प्रारब्ध:। मुख्यमंत्री हेमन्तः सोरेन: ११ फरवरीदिनाङ्के नेवा–सेवा–केंद्रस्य उद्घाटनं कृतवान्। शून्यकालस्य सूचना: आधुनिक–डिजिटल–रूपेण प्रेष्यन्ते, तथा अग्रिमे समये प्रश्नोत्तरम्, कार्यसूची च अन्य आवश्यकानि तथ्यानि डिजिटल–रूपेण उपलब्धानि भविष्यन्ति। अध्यक्षस्य अभिभाषणानन्तरं राज्यपालस्य अभिभाषणं जातम्, येन सह औपचारिकस्य वित्तसत्रस्य कार्यारम्भः कृतः।
उल्लेखनीयम् यत् झारखण्ड–विधानसभाया: एतत् वित्तसत्रं १८ फरवरीदिनाङ्कात् १९ मार्चमासपर्यन्तं सञ्चालितं भविष्यति, तथा आहत्य १७ कार्यदिवसेषु भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता