कार्यकुशलानाम् आपणः 20 फरवरीतः एक मार्च इत्येतं दिनांकं यावत् जवाहरलाल नेहरूक्रीडांगणे आयोजयिष्यते
नव दिल्ली, 18 फ़रवरीमासः (हि.स.)।दिल्लीस्थिते जवाहरलाल नेहरूक्रीडांगणे प्रथमवारं “कारीगर बाज़ार” नामकः महोत्सवः भारतस्य सजीवहस्तशिल्पपरम्पराणां भव्यं प्रामाणिकं च उत्सवं प्रस्तुतुं सज्जः अस्ति। परम्परायाः मूलैः सम्बद्धः अयं समारोहः आधुनिकदर्शकानां
कारीगर बाजार में प्रस्तुत कलाओं की फोटो।


नव दिल्ली, 18 फ़रवरीमासः (हि.स.)।दिल्लीस्थिते जवाहरलाल नेहरूक्रीडांगणे प्रथमवारं “कारीगर बाज़ार” नामकः महोत्सवः भारतस्य सजीवहस्तशिल्पपरम्पराणां भव्यं प्रामाणिकं च उत्सवं प्रस्तुतुं सज्जः अस्ति। परम्परायाः मूलैः सम्बद्धः अयं समारोहः आधुनिकदर्शकानां कृते विशेषतया निर्मितः अस्ति, यः केवलं क्रयविक्रयात् अधिकं गत्वा सांस्कृतिकानुभवं प्रदास्यति।

अयं महोत्सवः २० फरवरीतः १ मार्चपर्यन्तं आयोजितः भविष्यति। प्रतिदिनं प्रातः ११ वादनात् आरभ्य रात्रेः ८ वादनपर्यन्तं मेला प्रवर्तिष्यते।

संस्कार भारती इति संस्थया प्रकाशितया विज्ञप्त्या ज्ञापितं यत् अस्मिन् संस्करणे देशस्य विभिन्नराज्येभ्यः द्विशताधिकाः चयनिताः कारीगराः, येषु राष्ट्रियपुरस्कारविजेतारः, पारम्परिकशिल्पविशेषज्ञाः तथा महिला शिल्पकाराः सन्ति, स्वकलानां प्रदर्शनं करिष्यन्ति। प्रत्येकं स्टॉलः संततिपरम्परया आगतं पारम्परिककौशलं, क्षेत्रीयपरिचयं तथा हस्तनिर्मितप्रामाणिकतां प्रतिनिधित्वं करिष्यति।

अत्र आगन्तुकाः जामदानी, इकत्, अजरख, चन्देरी, महेश्वरी वस्त्रबुननकला, फुलकारी, चिकनकारी, जरी जर्दोजी कढाईकला, लोकजनजातीयकला, पर्यावरणानुकूलशिल्प, आभरणानि, गृहसज्जासामग्री तथा पारम्परिकखाद्यपदार्थानां विस्तृतां श्रेणीं द्रष्टुम् अवसरं प्राप्स्यन्ति।

अस्य आयोजनस्य मुख्याकर्षणं “कारीगर एक्सपीरियंस सेंटर” भविष्यति, यत्र आगन्तुकाः कारीगरैः सह प्रत्यक्षसंवादं कर्तुं शक्नुवन्ति तथा जीवन्मञ्चप्रदर्शनं कार्यशालासु च भागं ग्रहीतुं शक्नुवन्ति। अत्र ब्लॉक प्रिंटिंग, मृद्भाण्डनिर्माणं, पटचित्रचित्रकला, चन्नापटना क्रीडनकनिर्माणं, लाखाचूडीनिर्माणं, सबाई तृणबुननकला इत्यादीनां पारम्परिकशिल्पप्रक्रियाणां अनुभवः दास्यते।

कार्यक्रमस्य अवसरे विभिन्नराज्यानां लोकसांस्कृतिकप्रस्तुतयः अपि आयोजिताः भविष्यन्ति। २० तः २२ फरवरीपर्यन्तं जम्मू कश्मीरप्रदेशस्य पारम्परिकं बाचा नगमा नृत्यं प्रस्तुतं भविष्यति, तथा २३ फरवरीतः १ मार्चपर्यन्तं राजस्थानस्य प्रसिद्धः कठपुतलीकलाकारः विनोद भट्ट पारम्परिकं कठपुतलीनाट्यं प्रदर्शयिष्यति।

शिल्पप्रदर्शनस्य सह देशस्य विभिन्नप्रदेशानां पारम्परिकस्वादयुक्तः विशेषः भोजनकोणः अपि आकर्षणकेंद्रं भविष्यति, यत्र दिल्ली, पंजाब, राजस्थान, कर्नाटक, मध्यप्रदेश तथा उत्तरप्रदेश इत्यादीनां प्रदेशानां व्यंजनानि उपलब्धानि भविष्यन्ति।

“कारीगर बाज़ार” केवलं व्यापारमञ्चः न, अपि तु भारतस्य पारम्परिककलानां तथा कारीगरसमुदायानां प्रोत्साहनाय महत्वपूर्णः प्रयत्नः अस्ति। अनेन आयोजनद्वारा कारीगरान् प्रत्यक्षतया उपभोक्तृभ्यः संयोज्य तेषां आजीविकासशक्तीकरणस्य प्रयासः क्रियते। एतादृशैः आयोजनेभ्यः संस्था पारम्परिकशिल्पं समकालीनदर्शकेभ्यः समीपं नेतुं यत्नं करोति।

---------------

हिन्दुस्थान समाचार