ए.आई.–समिटमध्ये भागं ग्रहीतुं भारतदेशं आगत: कजाकिस्तान–प्रधानमन्त्री
नवदिल्ली, १८ फरवरीमासः (हि.स.)।कजाकिस्तानदेशस्य प्रधानमन्त्री ओल्जासः बेक्टेनोवः भारतीय-ए.आई.–इम्पैक्टसमिट-मध्ये भागं ग्रहीतुं बुधवासरे भारतं आगतवान्। तं विदेश–राज्यमंत्री कीर्तिवर्धनः सिंहः विमानपत्तने स्वागतं कृत्वा अभिनन्दितवान्। विदेश–मन्त्राल
कजाकिस्तान के प्रधानमंत्री ओल्जास बेक्टेनोव का स्वागत करते हुए कीर्ति वर्धन सिंह।


नवदिल्ली, १८ फरवरीमासः (हि.स.)।कजाकिस्तानदेशस्य प्रधानमन्त्री ओल्जासः बेक्टेनोवः भारतीय-ए.आई.–इम्पैक्टसमिट-मध्ये भागं ग्रहीतुं बुधवासरे भारतं आगतवान्। तं विदेश–राज्यमंत्री कीर्तिवर्धनः सिंहः विमानपत्तने स्वागतं कृत्वा अभिनन्दितवान्।

विदेश–मन्त्रालयस्य प्रवक्ता रणधीरः जायसवालः एक्समध्ये सूचितवान् यत् कजाकिस्तान–प्रधानमन्त्री ए.आई.–इम्पैक्टसमिटमध्ये भागं ग्रहीतुं भारतं आगतवान्। तस्य स्वागतं विदेश–राज्यमंत्री कीर्तिवर्धनः सिंहः कृतवान्।

प्रवक्ता अपि उक्तवान् यत् कजाकिस्तान–प्रधानमन्त्रिणः एष: प्रवास: सार्थक: भविष्यति। तस्य सहभागितया उभयोः राष्ट्रयोः मध्ये दृढं सहभागिता–संबन्धं अधिकं प्रोत्सहिष्यते।

हिन्दुस्थान समाचार / Dheeraj Maithani