Enter your Email Address to subscribe to our newsletters

– मुख्यमन्त्री डॉ.यादवः मार्ग–प्रदर्शनेन (रोड–शो)– सह विकास–कार्याणां लोकार्पणं भूमिपूजनं च करिष्यति
भोपालनगरम्, १८ फरवरीमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन–यादवः अद्य बुधवासरे ग्वालियर–जनपदस्य कुलैथ–ग्रामे आयोज्यमानस्य कृषक–कल्याण–वर्षस्य प्रथमस्य राज्य–स्तरीयस्य विशालस्य भव्यस्य च कृषक–सम्मेलनस्य शुभारम्भं करिष्यति।
जनसम्पर्क–अधिकारी हितेन्द्र–सिंह–भदौरिया अवदत् यत् वर्तमानं वर्षं (२०२६) प्रदेशे कृषक–कल्याण–वर्षरूपेण आचर्यते। कृषक–कल्याण–वर्षस्य प्रथमं कृषक–सम्मेलनं मुख्यमन्त्री डॉ.यादवस्य मुख्यातिथ्ये अद्य अपराह्णे कुलैथ–ग्रामे आयोज्यते। अस्मिन् अवसरे सर्वकारस्य विविध–योजनाभ्यः कृषकेभ्यः हितलाभाः वितरिष्यन्ते। तदनन्तरं उन्नत–कृषि–प्रौद्योगिक्याः प्रदर्शिनी अपि स्थापयिष्यते, यस्याम् उद्यानिकी, प्राकृतिक–कृषिः तथा पशु–प्रजाति–सुधारः प्रमुखतया समाविष्टाः भविष्यन्ति।
कार्यक्रमे मुख्यमन्त्री डॉ.यादवः ८७.८६ कोटि–रूप्यकाणां व्ययेन निर्मितानां ४१ विकास–कार्याणां भूमिपूजनं लोकार्पणं च करिष्यति। कृषक–सम्मेलने विधानसभा–अध्यक्षः नरेन्द्र–सिंह–तोमरः, सांसदः भारत–सिंह–कुशवाहः तथा अन्ये अतिथय: अपि सम्मिलिष्यन्ति।
प्रस्तावित–कार्यक्रमानुसारं मुख्यमन्त्री डॉ.यादवः कुलैथ–ग्रामम् आगत्य मार्ग-प्रदर्शन(रोड–शो)–माध्यमेन कृषकान् अभिवादयिष्यति। ततः पश्चात् सम्मेलन–परिसरे स्थापितायाः कृषि–प्रदर्शिन्याः अवलोकनं करिष्यति। अनन्तरं दीप–प्रज्वलनेन कृषक–सम्मेलनस्य शुभारम्भं करिष्यति तथा पुष्प–वर्षया उपस्थितानां कृषकाणां सम्मानं करिष्यति।
अस्मिन् अवसरे मुख्यमन्त्रिणा प्रायः ८८ कोटि–रूप्यकाणां व्ययेन ४१ विकास–कार्याणां भूमिपूजनं लोकार्पणं च भविष्यति, येषु ६६ कोटि ५६ लक्ष–रूप्यकाणां कार्याणां लोकार्पणं तथा २० कोटि ६४ लक्ष–रूप्यकाणां कार्याणां भूमिपूजनं समाविष्टम्।
एवमेव मुख्यमन्त्री डॉ.यादवः सर्वकारस्य विविध–योजनाभ्यः कृषकेभ्यः हितलाभान् वितरिष्यति, स्थानीय–कृषकैः आयोज्यमानां पारम्परिकां वृषभयान–धावनं अवलोकयिष्यति तथा कन्हैया–लोकगीतानां आनन्दं लप्स्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता