सतनानगरम् - शासकीय–आईटीआई-मध्ये अद्य रोजगार–मेलापकस्य आयोजनं भविष्यति
सतनानगरम्, १८ फरवरीमासः (हि.स.)। मध्यप्रदेशस्य सतनानगरे जनपद–प्रशासनस्य तथा जनपद–रोजगार–कार्यालयस्य सहयोगेन अद्य बुधवासरे प्रातः ११ वादनात् अपराह्णे २ वादनपर्यन्तं शासकीय–आईटीआई–महाविद्यालये (बिरला–मार्गे, सतना) ‘युवा–संगम–रोजगार–मेलापक:’ आयोज्यते।
आईटीआई में रोजगार मेला

जनपद–रोजगार–कार्यालयेन प्रदत्तसूचनानुसारं अस्मिन् रोजगार–मेलापके चैतन्य–फायनान्स्, प्राकृतशील–बायोटेक् प्राइवेट् लिमिटेड्, देवा–इन्टरप्राइजेज्, मदरसन–सूमि, जीडी–एक्स्–सिक्योरिटी (नोएडा), बजाज–ऑटो–लिमिटेड्, सीएलएल–एमसीसी, क्वालिटी–आस्ट्रिया–सेन्ट्रल–एशिया, विन्ध्य–प्लेसमेण्ट–समूहः, टीसीआई, आरएसडब्ल्यूएम–लिमिटेड्, एसआर–इन्टरप्राइजेज् (लखनऊ), ईचर–मोटर्स् (पीथमपुर), याजाकी–इण्डिया–प्राइवेट् लिमिटेड्, इन्फिनिटी–कैरियर–सोल्यूशन्स्, जेबिल–सर्किट–प्राइवेट् लिमिटेड्, फॉल्कोन–इञ्जीनियरिङ्ग–प्राइवेट् लिमिटेड् इत्यादिषु विविधेषु पदेषु नियुक्तयः क्रियन्ते।

दशम–द्वादश–कक्षोत्तीर्णाः, आईटीआई, डिप्लोमा, स्नातक–उत्तीर्णाश्च बेरोजगार–आवेदकाः स्व–मूल–प्रमाणपत्रै: सह निर्धारिते स्थाने उपस्थाय रोजगार–अवसरान् लब्धुं शक्नुवन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता