द्रौपदी मुर्मु अद्य विशाखापत्तनम् मध्ये अन्ताराष्ट्रिय–नौसैनिक–जलपोत–समीक्षायाः अवलोकनं करिष्यति
विशाखापत्तनम् (आन्ध्रप्रदेशः), १८ फरवरीमासः (हि.स.)। राष्ट्रपतिः द्रौपदी–मुर्मुः अद्य ‘सिटी–ऑफ–डेस्टिनी’ इति नाम्ना विख्याते विशाखापत्तनम्–नगरे समुद्री–सहयोगं, विश्वासं तथा साझा–सुरक्षां प्रवर्धयितुं प्रतिष्ठितस्य अन्तरराष्ट्रीय–नौसैनिक–कार्यक्रमस्
सांकेतिक


विशाखापत्तनम् (आन्ध्रप्रदेशः), १८ फरवरीमासः (हि.स.)। राष्ट्रपतिः द्रौपदी–मुर्मुः अद्य ‘सिटी–ऑफ–डेस्टिनी’ इति नाम्ना विख्याते विशाखापत्तनम्–नगरे समुद्री–सहयोगं, विश्वासं तथा साझा–सुरक्षां प्रवर्धयितुं प्रतिष्ठितस्य अन्तरराष्ट्रीय–नौसैनिक–कार्यक्रमस्य ‘इण्टरनेशनल्–फ्लीट्–रिव्यू’ इत्यस्य अवलोकनं करिष्यति।

इण्टरनेशनल्–फ्लीट्–रिव्यू इत्येकं महद्भूतं भव्यं च समुद्री–आयोजनम् अस्ति। अस्मिन् ‘अन्ताराष्ट्रिय–नौसैनिक–अभ्यासः मिलनम्–२०२६’ इत्यस्मिन् सप्ततिः (७०) त: अधिकदेशानां नौसेनाः स्वान् युद्धपोतान्, पनडुब्ब्यः तथा विमानानि प्रदर्शयिष्यन्ति। अस्मिन् आयोजने एकसप्तति: (७१) युद्धपोताः भागं गृह्णन्ति—तेषु पञ्चचत्वारिंशत् (४५) भारतीय–नौसेनायाः तथा एकोनविंशतिः (१९) मित्र–विदेशीय–देशानां पोता: सन्ति। पञ्चदश–फरवरीतः भारतस्य आतिथ्येन आरब्धस्य अस्य ऐतिहासिक–कार्यक्रमस्य समापनं पञ्चविंशतिः (२५) फरवरीमासे भविष्यति। सूचितं यत् अद्य कार्यक्रमस्य मुख्यातिथिरूपेण राष्ट्रपतिः द्रौपदी–मुर्मुः प्रातः नववादने फ्लीट्–निरीक्षणं करिष्यति।

भारतस्य स्वदेशी विमानवाहक–पोतः आईएनएस् विक्रान्तः अस्य आयोजनस्य प्रमुखं केन्द्रम् अस्ति। एतत् आयोजनं महासागराणां माध्यमेन एकताया: सन्देशं दत्त्वा अन्ताराष्ट्रिय–सहयोगं मैत्रीं च प्रवर्धयति। अस्मिन् कार्यक्रमे भारतदेश: स्वदेशीय–युद्धपोतैः स्वस्य सैन्य–शक्तेः प्रदर्शनं करोति। भारतीय–नौसेनायाः तत्वावधानात् आयोज्यमानस्य अन्तरराष्ट्रीय–नौसैनिक–अभ्यासस्य मिलनम्–२०२६ इत्यस्य उद्देश्यं मित्र–देशानां नौसेनानां मध्ये समन्वयस्य, परस्पर–सहयोगस्य तथा समुद्री–सुरक्षायाः सुदृढीकरणम् अस्ति।

राष्ट्रपतिः द्रौपदी–मुर्मुः इण्टरनेशनल्–फ्लीट्–रिव्यू–कार्यक्रमस्य माध्यमेन विश्वं प्रति भारतस्य वर्धमानां नौसैनिक–शक्तिं परिचाययिष्यति। अस्य ऐतिहासिक–क्षणस्य साक्षी भवितुं राष्ट्रपतिः मङ्गलवासरे सायं विशाखापत्तनम् आगतवती। सा बंगाल–उपसागरे स्वदेशीय–युद्धपोतः आईएनएस् सुमेधां आरूह्य समुद्रमध्ये स्थितस्य पोतसमूस्य निरीक्षणं करिष्यति। कार्यक्रमे पञ्चाशत् (५०) त: अधिकानि युद्ध–विमानानि तथा हेलिकॉप्टरविमानानि फ्लाइ–पास्ट् कृत्वा राष्ट्रपतिन: स्वागतं करिष्यन्ति नंस्यन्ति वा। आकाशे मिग–२९, एलसीए–तेजस्, पी–८आई टोही–विमानानि तथा सी–किङ् हेलिकॉप्टरविमानानां गर्जनं श्रूयते। विश्वस्य अतिभीषणाः समुद्री–कमाण्डो इति विख्याताः नौसेनायाः मार्कोस अपि समुद्रमध्ये विशेष–युद्ध–कौशलस्य प्रदर्शनं करिष्यन्ति।

एतत् आयोजनन सैन्य–शक्त्या सह भारतस्य समुद्री–कूटनीतेः अपि महत्त्वपूर्ण: मञ्च: अस्ति। प्रधानमन्त्रिणः नरेन्द्र–मोदीन: महासागर–दृष्टेः अन्तर्गतं भारतः स्वयं हिन्द–महासागर–क्षेत्रे सुरक्षा–प्रदाता–रूपेण प्रस्तौति। देशे फ्लीट्–रिव्यू–परम्परा वर्षे १९५३ आरब्धा—तदा प्रथम–राष्ट्रपतिः डॉ॰राजेन्द्र–प्रसादः त्रयस्त्रिंशत् (३३) भारतीय–पोतानां निरीक्षणं कृतवान्। वर्षे २०१६ विशाखापत्तनम्–नगरे अस्य भव्यः समारोहः अभवत्। इदानीन्तनम् आयोजनं विशेषम् अस्ति, यतो हि एतत् विश्वस्य महत्तमेषु नौसैनिक–अभ्यासेषु एकेन मिलनम्–२०२६ इत्यनेन सह आयोजितं भवति।

हिन्दुस्थान समाचार / अंशु गुप्ता