Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १८ फरवरीमासः (हि.स.)।नीदरलैण्डदेशस्य प्रधानमन्त्री डिकः शूफः इन्डिया ए.आई.–इम्पैक्टसमिटमध्ये भागं ग्रहीतुं भारतदेशं आगतवान्। तं केन्द्रीय–विज्ञान–प्रौद्योगिकी–राज्यमंत्री (स्वतन्त्र–प्रभार:) डॉ.जितेन्द्रसिंहः विमानपत्तने स्वागतं कृत्वा अभिनन्दितवान्।
विदेश–मन्त्रालयस्य प्रवक्ता रणधीरः जायसवालः – एक्समध्ये एतां सूचनां प्रकटितवान् यत् नीदरलैण्ड–प्रधानमन्त्री ए.आई.–इम्पैक्टसमिटमध्ये भागं ग्रहीतुं भारतदेशं आगतवान्। तस्य स्वागतं डॉ.जितेन्द्रसिंहः कृतवान्।
प्रवक्ता अपि उक्तवान् यत् प्रधानमन्त्री–शूफस्य सहभागिता ए.आई.–इम्पैक्टसमिटमध्ये भारत–नीदरलैण्ड द्विपक्षीय सहभागितां अधिकं दृढं प्रगाढं च करिष्यति।
हिन्दुस्थान समाचार / Dheeraj Maithani