प्रधानमन्त्री गूगल–मुख्यकार्यमन्त्रिणा सुन्दर-पिचाई इत्यनेन सहितं साक्षात्कारं कृतवान्
नवदिल्ली, १८ फरवरीमास: (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी अद्य भारतीयए.आई.–इम्पैक्ट्श–सम्मेलनात् पृथक् गूगल एवं अल्फाबेट–मुख्यकार्यकारिणा सुन्दरपिचाई-इत्यनेन सह हैदराबाद–हाउस-मध्ये बुधवासरे साक्षात्कारं कृतवान्। अस्मिन् साक्षात्कारकाले भारतस्य कृत्
गूगल और अल्फाबेट के सीईओ सुंदर पिचाई से मुलाकात करते प्रधानमंत्री नरेन्द्र मोदी


गूगल और अल्फाबेट के सीईओ सुंदर पिचाई से मुलाकात करते प्रधानमंत्री नरेन्द्र मोदी


नवदिल्ली, १८ फरवरीमास: (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी अद्य भारतीयए.आई.–इम्पैक्ट्श–सम्मेलनात् पृथक् गूगल एवं अल्फाबेट–मुख्यकार्यकारिणा सुन्दरपिचाई-इत्यनेन सह हैदराबाद–हाउस-मध्ये बुधवासरे साक्षात्कारं कृतवान्। अस्मिन् साक्षात्कारकाले भारतस्य कृत्रिमबुद्धिमत्ता (ए.आई.)–क्षेत्रे क्रियमाणानि कार्याणि तथा गूगल–संस्थाया: भारतीय–छात्रैः सह सहयोगं वृद्धिं कर्तुं प्रयासादिषु विषयेषु चर्चा अभवत्।

प्रधानमन्त्री मोदी एक्स–मध्ये उक्तवान् यत् सुन्दरपिचाई–सहितं साक्षात्कारं कृत्वा प्रसन्नता अभवत्। तेनापि निर्दिष्टम् यत् वार्तायाम् भारत–ए.आई.–क्षेत्रे क्रियमाणा: प्रयासाः, तथा गूगल–सहितं प्रतिभावत: छात्रान् संयोजयितुं उपायानां कृते विचार–विमर्शः अभवत्। उल्लेखनीयम् यत् १६ फरवरीमासात् आरभ्यमाणं एतत् शिखर–सम्मेलनं स्वकीयक्षेत्रे विश्वस्य चतुर्थं सम्मेलनम् अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता