प्रधानमन्त्रीमोदिना सह मिलित्वा फ्रांस–राष्ट्रपतिः मैक्रों अवदत्— “जय हो!”
मुम्बईनगरम्, १८ फरवरीमासः (हि.स.)। देशस्य आर्थिक–राजधान्यां मुम्बईनगरे नरेन्द्रमोदी तथा भारत–यात्रायाम् आगतः इमैनुएल मैक्रों परस्परं साक्षात्कारं कृतवन्तौ। मङ्गलवासरे मुम्बई–लोक–भवने सम्पन्नायां वार्तायां संवाददाता–सम्मेलनानन्तरं उभौ नेतारौ एकस्मिन
फ्रांस के राष्ट्रपति इमैनुएल मैक्रों और भारत के प्रधानमंत्री नरेन्द्र मोदी। मैक्रों ने इस फोटो को ही एक्स पर साझा करते हुए लिखा कि जय हो।


मुम्बईनगरम्, १८ फरवरीमासः (हि.स.)। देशस्य आर्थिक–राजधान्यां मुम्बईनगरे नरेन्द्रमोदी तथा भारत–यात्रायाम् आगतः इमैनुएल मैक्रों परस्परं साक्षात्कारं कृतवन्तौ। मङ्गलवासरे मुम्बई–लोक–भवने सम्पन्नायां वार्तायां संवाददाता–सम्मेलनानन्तरं उभौ नेतारौ एकस्मिन्नेव याने दृष्टिपथं आगतौ, यत्र तयोः मैत्रीपूर्णा चर्चा अभवत्। राष्ट्रपति मैक्रों मङ्गलवासरे रात्रौ याने प्रधानमन्त्रिणा सह यात्रायाः छायाचित्रं ‘एक्स’ माध्यमे प्रकाशितवान्, यस्य लेखने सः लिखितवान्— “जय हो!”उल्लेखनीयम् अस्ति यत् भारत–फ्रांस–सम्बन्धाः अद्य नूतनां ऐतिहासिकीं उच्चताम् आरूढाः। उभौ देशौ स्व–मैत्रीं ‘विशेष–वैश्विक–रणनीतिक–सहभागिता’ इति रूपे परिवर्तितवन्तौ। मुम्बईनगरे मोदी–मैक्रोंयोः सभायां रक्षाक्षेत्रे, प्रौद्योगिक्यां, स्टार्टअप्–क्षेत्रे, आवश्यक–खनिजेषु, स्वास्थ्ये शिक्षायां च बहवः महत्त्वपूर्णा: घोषणाः कृताः।

राष्ट्रपतिमैक्रों-इत्यस्य यात्राकाले रक्षाक्षेत्रे अपि केचन महत्त्वपूर्णाः निर्णयाः अभवन्। कर्नाटक–राज्यस्य वेमागल–स्थाने ‘एच१२५ हेलीकॉप्टर–अन्तिम–संयोजन–रेखा’ उद्घाटिता। एषा भारतदेशे निजी–क्षेत्रस्य प्रथमं हेलीकॉप्टर–निर्माणी भविष्यति, यां टाटा–एयरबस–संयुक्तरूपेण सञ्चालयिष्यतः। प्रधानमन्त्री अवदत् यत् भारतदेश: फ्रांसश्च संयुक्तरूपेण तादृशं हेलीकॉप्टरविमानं निर्मास्यतः यत् एवरेस्ट–पर्वतपर्यन्तं उड्डयनं कर्तुं शक्नोति। उभयोः देशयोः मध्ये निश्चयः कृतः यत् इतः परं प्रतिवर्षं विदेश–मन्त्रिणोः संवादः भविष्यति। नवाचार–प्रोत्साहनाय ‘इण्डिया–फ्रांस–इनोवेशन–नेटवर्क्’ आरब्धम्। प्रौद्योगिक्यादिषु क्षेत्रेषु सहकार्याय अनेके सन्धय: अपि हस्ताक्षरिताः।

प्रधानमन्त्रीमोदी राष्ट्रपतिन: मैक्रों-इत्यस्य स्वागतं कृत्वा अवदत् यत् भारत–फ्रांस–मैत्र्या: काचिदपि सीमा नास्ति। सः स्वस्य गतवर्षीयां फ्रांस–यात्रां स्मृतवान्। मार्सेल–नगरस्य उल्लेखं कृत्वा सः अवदत् यत् प्रथम–विश्वयुद्धकाले तत्र भारतीय–सैनिकाः स्ववीरतां प्रदर्शितवन्तः। सः वीर–सावरकरं अपि स्मृतवान्, येन तस्मिन्नेव नगरे आङ्ग्ल–बन्धनात् मुक्त्यर्थं समुद्रे प्लवनं कृतम्।

अस्मिन् अवसरे राष्ट्रपति: मैक्रोंः प्रधानमन्त्रिणं मोदीं २०२६ वर्षे फ्रांस–अध्यक्षतायां आयोज्यमानस्य ५२तमे जी–७ शिखर–सम्मेलने विशेषातिथिरूपेण आमन्त्रितवान्। सः अवदत् यत् शिखर–सम्मेलनात् पूर्वं अन्ताराष्ट्रिय–कार्यसूच्यां सहमतिं साधयितुं भारत–फ्रांसयोः मध्ये अन्तरिम–सभापि भवेत्। भारतः अग्रिम-ब्रिक्स्–सम्मेलनस्य अध्यक्षतां करिष्यति, फ्रांसः च जी–७–समूहस्य आतिथ्यं वहिष्यति—इत्यस्य सन्दर्भे राष्ट्रपतिना उक्तं यत् उभयोः देशयोः यूनां कृते नवाचार–कार्येषु अवसराः सर्जनीयाः।

अन्यत्र सः अनुसन्धान-छात्रविनिमय-व्यापार–क्षेत्रेषु नूतन–दिल्ली–पेरिसयोः प्रभावी–सहभागिताम् आहूतवान्। “एषा एव सा वार्ता यां अहं प्रधानमन्त्रिणा उक्तेषु योजयितुम् इच्छामि” इति सः अवदत्। प्रधानमन्त्रिणा मोदीना राष्ट्रपतिना मैक्रों-इत्यनेन सह गेटवे–ऑफ–इण्डिया–स्थले ‘इण्डिया–फ्रांस–ईयर–ऑफ–इनोवेशन २०२६’ इत्यस्य आधिकारिकः शुभारम्भः कृतः। अस्य उपक्रमस्य उद्देश्यं भारत–फ्रांसयोः नवाचार–प्रौद्योगिकी–स्टार्टअप्–शिक्षा–अनुसन्धान–क्षेत्रेषु सहकार्यं अधिकं सुदृढीकर्तुम्।

अपरत्र, कर्नाटक–राज्यस्य बेंगलुरु–नगरे आयोज्यमाने षष्ठे भारत–फ्रांस–वार्षिक–रक्षा–संवादे रक्षामन्त्री राजनाथसिंहः अवदत् यत् भारतः फ्रांसस्य रणनैतिक–स्वायत्ततां तथा सुदृढां यूरोपीय–रक्षा–नीतिं प्रति तस्य प्रतिबद्धतां प्रशंसति। सः अवदत् यत् सम्प्रत्येव सम्पन्नः भारत–यूरोपीय–संघ–सुरक्षा–रक्षा–सहभागिता-सन्धि: उभयोः पक्षयोः सहकार्यं अधिकं सबलं करिष्यति। भारतदेश: अस्या: नमूनाया: उपयोगं द्विपक्षीय–तथा व्यापक–यूरोपीय–स्तरे क्षेत्रीय–स्थैर्यं संयुक्त–क्षमताश्च वर्धयितुं करिष्यति। रक्षामन्त्री अवदत् यत् उभौ देशौ रक्षा–सहयोग–सन्धिं अग्रिम–दश–वर्षाणां कृते नवीकृतवन्तौ—यत् भारत–फ्रांस–मैत्र्या: गभीरतायाः सुदृढाया: रणनैतिक-सहभागिताया: च प्रतीकम् इति।

हिन्दुस्थान समाचार / अंशु गुप्ता