Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १८ फरवरीमासः (हि.स.)।यूरोपीयदेशस्य स्लोवाक–गणराज्यस्य राष्ट्रपति: पीटरः पेलेग्रिनी भारतीय-ए.आई.–इम्पैक्ट-समिट-मध्ये भागं ग्रहीतुं बुधवासरे नवदिल्लीं आगतवान्। तं केन्द्रीय–विज्ञान–प्रौद्योगिकी–राज्यमंत्री (स्वतन्त्र–प्रभार:) डॉ.जितेन्द्रसिंहः विमानपत्तने स्वागतं कृत्वा अभिनन्दितवान्।
विदेश–मन्त्रालयस्य प्रवक्ता रणधीरः जायसवालः एक्स–पोस्टमध्ये एतां सूचनां प्रकटितवान् यत् स्लोवाक–राष्ट्रपति: ए.आई.–शिखर–सम्मेलनाय भारतं आगतवान्। तस्य स्वागतं डॉ.जितेन्द्रसिंहः कृतवान्।
प्रवक्ता अपि उक्तवान् यत् ए.आई.–शिखर–सम्मेलनसत्रे राष्ट्रपति–पेलेग्रिन्याः उपस्थिति: भारत–स्लोवाक–गणराज्ययोः निकटं विस्तारितं च सम्बन्धं अधिकं प्रगाढं करिष्यति।
हिन्दुस्थान समाचार / Dheeraj Maithani