Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 18 फरवरीमासः (हि.स.)।
स्पेनदेशस्य राष्ट्रपतिः पेद्रो साञ्चेज भारतम् आगतः, यतः सः इण्डिया एआई इम्पैक्ट समिट इत्यस्य सम्मेलने भागं ग्रहीतुं आगच्छत्।
केन्द्रीयकौशलविकासउद्यमितामन्त्रालयस्य राज्यस्वतन्त्रप्रभारमन्त्री जयन्त चौधरी विमानतले तस्य स्वागतं कृतवान्।
विदेशमन्त्रालयस्य प्रवक्ता रणधीर जायसवाल सामाजिकमाध्यममञ्चे एक्स इत्यत्र एतां सूचनां प्रकाशितवान्।
तेन उक्तं यत् स्पेनदेशस्य राष्ट्रपतिः पेद्रो साञ्चेज इण्डिया एआई इम्पैक्ट समिट इत्यस्मिन् भागं ग्रहीतुं भारतम् आगतः। तस्य स्वागतं जयन्त चौधरी महोदयेन कृतम्।
विदेशमन्त्रालयस्य प्रवक्त्रा उक्तं यत् एषा यात्रा भारतस्पेनयोः संस्कृतिपर्यटनकृत्रिमबुद्धिमत्ताक्षेत्रेषु संयुक्तद्विपक्षीयवर्षस्य वर्तमानकार्यक्रमान् अधिकं प्रोत्साहिष्यति।
---------------
हिन्दुस्थान समाचार