Enter your Email Address to subscribe to our newsletters

रायपुरम्, 18 फ़रवरीमासः(हि.स.)।
छत्तीसगढराज्योपभोक्ताविवादप्रतितोषायोगेन अद्य बुधवासरे अपराह्णे द्विवादने (२:००) पत्रकारसम्मेलनस्य आयोजनं कृतम्। अयं कार्यक्रमः पण्डरीपुरातनबसस्थानकस्थिते आयोगकार्यालये आयोजितः।
पत्रकारसम्मेलने आयोगस्य अधिकारिगणाः न्यायमूर्तयश्च उपभोक्तामामलानां शीघ्रनिराकरणम्, लम्बितप्रकरणानां स्थितिः, तथा अर्वाचीनकाले पारितानां महत्त्वपूर्णादेशानां विषये चर्चां करिष्यन्ति।
हिन्दुस्थान समाचार