Enter your Email Address to subscribe to our newsletters



पूर्व मेदिनीपुरम्, 18 फरवरीमासः (हि. स.)।
जनपदस्य मयना विधानसभाक्षेत्रस्य पूर्वः तृणमूलविधायकः संग्रामदोलायः मङ्गलवासरस्य सायंकाले भारतीयजनतादले प्रविष्टः। विधानसभायां प्रतिपक्षनेता शुभेन्दुअधिकारी तस्मै पक्षध्वजं प्रदाय औपचारिकरूपेण स्वागतं कृतवान्। अस्मिन् अवसरे मयना क्षेत्रस्य विधायकः अशोकदिन्डा अपि उपस्थितः आसीत्।
भारतीयजनतादले प्रवेशानन्तरं पक्षकार्यकर्तारः मिष्टान्नवितरणेन हर्षं प्रकटितवन्तः। राजनीतिकविश्लेषकानां मतम् अस्ति यत् अद्यतनदिनेषु जिल्लायां येन प्रकारेण दलपरिवर्तनघटनाः दृश्यन्ते, तेन स्थानीयराजनीतौ उत्सुकता चञ्चलता च वर्धिता अस्ति।
उल्लेखनीयम् अस्ति यत् गत १३ फरवरी दिनाङ्के भाजपा नेता चन्दनभट्टाचार्य तृणमूलकांग्रेसस्य सदस्यतां स्वीकृतवान्। तस्मिन् समये सः मयना क्षेत्रस्य विकासस्य, विशेषतः मत्स्यपालनाधारितअर्थव्यवस्थायाः उपेक्षायाः आरोपं कृत्वा भाजपा त्यक्तवान्। अस्य घटनाक्रमस्य अनन्तरं एव एतादृशाः अनुमानाः क्रियमाणाः आसन् यत् तृणमूलस्य कश्चन प्रभावशाली नेता भाजपा मध्ये प्रवेक्ष्यति।
अपरतः तृणमूलकांग्रेसपक्षेण संग्रामदोलायस्य भाजपा प्रवेशः विशेषमहत्त्वेन न दृष्टः। जिलाध्यक्षः सुजीतकुमाररायः अवदत् यत् दोलायस्य दीर्घकालात् संगठनसंपर्कः न्यूनः अभवत्, तस्य गमनात् पक्षे कश्चन प्रतिकूलप्रभावः न भविष्यति। तेन कथितं यत् मयना क्षेत्रे तृणमूलपक्षः पूर्वापेक्षया अधिकसुदृढस्थितौ अस्ति।
---------------
हिन्दुस्थान समाचार