Enter your Email Address to subscribe to our newsletters

- सीड पार्कतः कृषकेभ्यः प्राप्स्यन्ते उच्चगुणवत्तायुतानि बीजानि, कृष्युत्पादने भविष्ययि व्यापिकावृद्धिः
लखनऊ, 18 फरवरीमासः(हि.स.)।
उत्तर प्रदेश राज्यस्य शासनद्वारा कृषिक्षेत्रे व्यापकसुधारान् आनेतुं तथा उत्पादकतायाः उत्पादनस्य च वृद्ध्यर्थं च विविधमहत्वपूर्णपरियोजनानां कृते समग्रतः ६५.१५ कोटिरूप्यकाणां वित्तीयस्वीकृतिः प्रदत्ता अस्ति।
अस्मिन् क्रमः लखनऊ स्थिते राजकीयकृषिप्रक्षेत्रे “अटारी” नाम्नि “भारत रत्न चौधरी चरण सिंह सीड पार्क” इत्यस्य स्थापनार्थं ५१ कोटि ३३ लक्ष ७५ सहस्र रूप्यकाणां धनराशिः निर्गता अस्ति। प्रदेशस्य कृषिमन्त्री सूर्य प्रताप शाही उक्तवान् यत् अनेन सीडपार्कद्वारा कृषकेभ्यः उन्नतप्रजातीयबीजानि सुलभानि भविष्यन्ति, येन तेषां आयवृद्धिः तथा सस्योत्पादने सकारात्मकपरिवर्तनानि भविष्यन्ति।
तदनन्तरं शासनद्वारा वित्तीयवर्षे २०२५–२६ कृते “सब मिशन ऑन एग्रीकल्चर एक्सटेंशन” (SMAE) योजनायाः मानकमदेषु राज्यांशं समावेश्य समग्रतः ९ कोटि ५ लक्ष ६२ सहस्र ५०० रूप्यकाणां वित्तीयस्वीकृतिः प्रदत्ता अस्ति। अपि च “नेशनल मिशन ऑन एडिबल ऑयल” (तिलहनविकास) इत्यस्य कृते ४ कोटि ६८ लक्ष ५ सहस्र ५५० रूप्यकाणां धनराशिः आवंटिता अस्ति, येन प्रदेशे खाद्यतेलोत्पादनस्य प्रोत्साहनं भविष्यति।
अस्यामेव श्रेण्याम् आचार्य नरेन्द्र देव कृषि एवं प्रौद्योगिक विश्वविद्यालय अन्तर्गतस्य आजमगढ़ परिसरस्य महिलाच्छात्रावासस्य अवशिष्टनिर्माणकार्याणां कृते ७.६६ लक्ष रूप्यकाणां वित्तीयस्वीकृतिः अपि प्रदत्ता अस्ति।
शासनद्वारा प्रदत्तैः एतैः निवेशैः उत्तरप्रदेशस्य कृषिपरिदृश्ये संरचनात्मकसुधाराः भविष्यन्ति तथा तकनीकीप्रसारः अधिकः सुदृढः भविष्यति।
---------------
हिन्दुस्थान समाचार